________________
wimmamAVI
वधे स्कन्दक
कश्चिदाक्रोशको वधमपि कुर्यादिति तत्परीषहमाहहओ न संजले भिक्खू मणं पिन पओसए। तितिक्खं परमं नचा भिक्खु धम्मं विचिंतए ॥ ७४ ॥ हतो यष्ट्यादिभिर्न संज्वलेत, कायतः कम्पनप्रत्याहननादिना वचनतश्च प्रत्याक्रोशदानादिना, मनोऽपि न प्रदूषयेत् , किंतु तितिक्षां-क्षमा धर्मस्य दयामूलत्वेन वा क्षमावान् दयां कुरुते परमां, धर्मसाधनप्रकर्षवती ज्ञात्वा, भिक्षुर्यतिः, धर्म-क्षान्त्यादिकं विचिन्तयेत् , यद्वा क्षमामूल एव धर्म इत्यादि ॥ २६ ॥ ७४॥
अमुमेव प्रकारान्तरेणाह
समणं संजय दंतं हणिज्जा कोइ कत्थइ । नत्यि जीवस्स नासो त्ति एवं पेहेज संजए ॥७॥ श्रमणं संयतं दान्तं हन्यात्, कोऽप्यनार्यः क्वचिद्रामादौ, नास्ति जीवस्योपयोगरूपस्य नाशः-अभावः, शरीरस्यैव नाशादू एवं चिन्तयेत् संयतः । अत्रोदाहरणं-(६०१८)
__ यथा श्रावस्त्यां जितशत्रुराजा, तत्पुत्रः स्कन्दकः, पुत्री पुरन्दरयशाः, सा दण्डिकराज्ञो दत्ता, तस्य पुरोधाः पालकःIS अन्यदा श्रावस्तीमागतो राज्ञोऽग्रे साधूनामवर्ण वदन् स्कन्दकेन निरुत्तरीकृतः, तदनु कुमारच्छिद्राणि पश्यति, अन्यदा
स्कन्दकः पञ्चशतैः सह श्रीमुनिसुव्रतस्वामिपादान्ते प्रव्रज्य स्वामिनमापृच्छ्रय च स विहरन् कुम्भकारकटपुरोटाने प्राप्तः, तत्र पूर्व पालकेन सर्वायुधानि गुप्तीकृत्य राज्ञो निवेदितं, यथैष परीपहपराजितस्त्वां व्यापाद्य राज्यं भोक्ष्यति, यतः पश्यैतानि आयुधानि सज्जीकृतानि, ततो राज्ञा ते तस्यैवार्पिताः, तेन सर्वेऽपि यन्त्रेण पीलिताः सम्यगधिसह्य सिद्धाः, नवरं स्कन्दकाचार्यो निदानं
कथा
T RINA
MANImaara
Jain Educat
i onal
For Private & Personal use only
REnjainelibrary.org