________________
-*-
*-
उत्तरा० अवचूर्णिः
*
॥ २१ ॥
परीषहाकृत्योपदेशमाह
*ध्ययनम् २ सोचा णं फरुसा भासा दारुणा गाम कंटया। तुसिणीओ उवेहिजा न ताओ मणसी करे ॥७३॥ सुच्चा-श्रुत्वा, परुषाः-कर्कशा भाषा-गिरो, मन्दसत्त्वानां संयमधृतिं दारयन्तीति दारुणाः, ग्राम-इन्द्रियग्रामस्तस्य * कण्टकाः-दुःखोत्पादकाः तूष्णींशीलो न कोपात् परुषभाषी एवंविधः उपेक्षेत - अवधीरयेत् , प्रक्रमात् परुषभाषा एव, कथमित्याह न त मनसि कुर्यात् , तद्भाषिणि द्वेषाकरणेन अत्रोदाहरणं (दृ०१७) यथा राजगृहे अर्जुननामारामिकः, तद्भार्या स्कन्दश्रीः, तयोश्च कुलदेवता मुद्गरपाणिर्यक्षः, पुरादहिस्तदारामासन्न एव
आक्रोशेड। वसति, एकदा स्कन्दश्रीः पत्युभक्तं नीत्वा गच्छन्ती तच्चैत्यस्थितैः षभिः पुरुषैर्भोक्तुं आरब्धा, ततो मालिकमायान्तं दृष्ट्वा * दृढं वद्ध्वा तस्यैव पुरस्ते भुञ्जन्ति, ततोऽसौ चिन्तयति-मयैष यक्षो मुधैवार्चितः, यदेतस्य पुरतः इत्थं मुधैव पराभूये, ततो * कथा
यक्षस्तच्छरीरमनुप्रविश्य मुद्गरं गृहीत्वा तान् षडपि पुरुषान् स्त्रीसप्तमान् हन्ति, एवं दिने दिने षडू नरान् स्त्रीसप्तमान् हन्ति, अन्यदा च तत्रोद्याने श्रीवीरवामिनं समवसृतं वन्दितुं सुदर्शनश्रेष्ठी यक्षेण सप्तजनवधेऽकृतेऽपि निर्गतः, ततस्तं दृष्ट्वा अर्जुनः
॥ २१॥ | पृष्ठे धावति, साकारं भक्तं प्रत्याख्याय प्रतिमास्थं श्रेष्ठिनमाक्रमितुं अशक्तः, स गते समुद्गरे यक्षे क्षोणी पतितः, उत्थितश्च, ततो । ज्ञातस्वव्यतिकरः श्रेष्ठिना सह समवसरणं गतः, ततो धर्म श्रुत्वा स्वाम्यन्ते प्रव्रज्य च राजगृह एव विहरन् जनाक्रोशान् सहमानो निर्वृतः, एवमन्यैरप्याक्रोशपरीषहः सोढव्यः ॥ २५ ॥७३॥
जूनमाली
REETITDHRAIIFETERANCE HIETre
Jain Education ROMonal
For Privale & Personal use only
Camjainelibrary.org