SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ SXOXO XXOXOXOXOXOXOXOXOXEXOXOXO कश्चाप्येकदा, स्थविरकल्पाद्यवस्थायामित्यवस्थौचित्येन सचेलत्वमचेलत्वं च, धर्माय-यतिधर्माय हितं धर्महितं ज्ञात्वा, तत्राचेलकत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिभिः, सचेलत्वस्य तु धर्महितत्वमग्न्याद्यारम्भनिवारकत्वेन, ज्ञानी -विद्वान् , शीतादिपीडितस्य किं मे शरणमिति न परिदेवयेत् , अत्रोदाहरणं (दृ०११) दशपुरे श्रीआर्यरक्षिताचार्यः पितृसोमदेव-मातृरुद्रसोमा भ्रातृफल्गुरक्षितादि कुटुम्बं प्रतिबोध्य प्रवाजितं तत्र च सोमदेवः स्वजनलज्जया द्विजस्वभावतः छत्रपदत्राणयज्ञसूत्रवस्त्रादीनि न मुञ्चति, अन्यदा आचार्यैर्बहिःपस्थितैः शिक्षितानि चेटरूपाणि भणति, यथासर्वान् साधून वन्दामहे मुक्तकं छत्रधरमिति ततोऽसौ वदति. इमे मम पुत्रा नप्तारश्च वन्द्यन्ते अहं न वन्द्यः किमहं न प्रबजितोऽस्मि ?, ततस्तानि भणन्ति न प्रव्रजितानां छत्रादीनि स्युः, तत आचार्येषु आगतेष्वेतान्यपि चोदयन्ति अलं पुत्र छत्रेण, 1 एवमेव पदत्राणयज्ञसूत्रादि मुक्तं न पुनः कटीपट्टं मुञ्चति, अन्यदा तत्रैकः साधुभक्तं प्रत्याख्यातः कालगतः, तत आचार्या भणति योऽमुं वहति तस्य महाफलं, ततः सर्वेऽपि भणन्ति वहामः, ततः स्थविरो भणति-पुत्र! किमत्र बहुतरा निर्जरा? आचार्या भणन्ति बाढं, ततो भणति अहमपि वहामि, आचार्या भणंति- अत्रोपसर्गा उत्पद्यन्ते ते यदि सम्यग् नाध्यास्यन्ते ततोऽस्माकं सुन्दरं न भविष्यति, एवं स स्थिरीकृतः, ततो यदा साधुमुत्क्षिप्य मार्गे गच्छति पश्चात्साध्व्यः स्थिताः ततः पूर्वसंज्ञिताः क्षुल्लका भणिताः सम्प्रति कटीपट मोचयन्तु ततस्तैमोचितः, तदा च तेन साधुर्मोक्तुमारब्धः, ततोऽन्यैश्चोलपट्टो दवरकेण बद्धः, ततोऽसौ जानाति - उत्थितो ममोपसर्गेति लजितो वहति, पश्चादागते गुरुभिः शाटके परिधाप्यमाने भणति चोलपट्टक एवास्तु, कायद् द्रष्टव्यं तद् दृष्टं तेन पूर्वमचेलपरीपही नाध्यासितः पश्चाच्चाध्यासितः ॥ ६१॥ ६ अचेल परीषहे आर्यरक्षिपितृकथा Jain Education Lational For Privale & Personal use only w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy