________________
उत्तरा०
अवचूर्णिः
11 2109 11
Jain Education
(0X3
न संत्रसेत्-नोद्विजेर्द्दशादिभ्य इति गम्यते, न वारयेत्-न निषेधयेत्, प्रक्रमाद्देशादीन् तुदतो मा भूदंतराय इति, मनोऽपि न प्रदूषयेत्, किंतु उपेक्षेत - औदासीन्येन पश्येत्, न हन्यात् प्राणान् प्राणिनो भुञ्जानान् मांसशोणितम् अत्रोदाहरणं (०१०) - यथा चंपायां जितशत्रुनृपपुत्रः श्रमणभद्रो युवराजा धर्मघोषान्तिके प्रव्रज्यैकाकी विहरन्नटव्यां प्रतिमास्थितो, मशकैः पीतशोणितो रात्रावेव दिवमगात् ॥ ५९ ॥
अचेलः सन् तैस्तुद्यमानो वस्त्रान्वेषी न स्यादित्यचेलपरीषहमाह
परिजुण्णेहिं वत्थेहिं भोक्खामि त्ति अचेलए । अदुवा सचेलए होक्खं इइ भिक्खु न चिंतए ॥ ६० ॥ परिजीण्णैः समन्ताद्वानिंगतैः वस्त्रैः भोक्खामित्तीति भिन्नक्रमो भविष्याम्यचेलकश्चेलविकलोऽल्पदिनभावित्वादेषामिति भिक्षुर्न चिन्तयेत्, अथवा सचेलकश्चेलान्त्रितो भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिच्छ्राद्धः सुन्दरतराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् ॥ ६० ॥
onal
इत्थं स्थविरकल्पिकमाश्रित्योक्तोऽचेलपरीषहः, संप्रति सामान्यतस्तमेवाह -
एगया अचेलए होइ सचेले आवि एगया । एयं धम्महियं नचा नाणी नो परिदेवए ।। ६१ ।
एकदा- जिनकल्पे स्थवेरकल्पेऽपि दुर्लभवस्त्रादौ निमित्तं विना, अप्रावरणे वा जीर्णादिवस्त्रतायां वा, अचेलको भवति, सचेल
For Private & Personal Use Only
XXXX
axox
XOXOXOXO
परीषहाध्ययनम् २
५ दंश० परीषहस्तदुपरि कथा
अचेलपरी
पहश्व
॥ १७ ॥
ainelibrary.org