SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ - - अर्हन्नक अत्रोदाहरण(१०९)तगरायां दत्तो वणिग् , भार्या भद्रा, पुत्रोऽहन्नकयुतः प्रव्रजितः, अर्हन्नकश्च पितृप्रसादेन सुखीजातोऽत्र सुकुमालशरीरश्च मिक्षायामपि न हिण्डते, अन्यदा पिता कालगतः, ततोऽसौ ग्रीष्मे भिक्षार्थ निर्गतः, सुकुमारतनुत्वेन उपर्यधश्च दह्यमानः प्रस्वेदतृष्णाभिभूतो छायायां विश्राम्यन्नेकया प्रोषितपतिकया सुरूपो दृष्ट्वा शब्दितो भिक्षा लाहि, मोदका दत्ताः, उक्तं च-मया सह भोगान् भुक्ष्व, ततः स उष्णेन निर्जितो भोगान् भुक्ते ततः साधुभिर्बहुविलोकितोऽपि न लब्धः, ततश्च तन्माता भद्रा पुत्रशोकेनोन्मत्तीभूता, अर्हन्नक कासीति विलपन्ती तत्रागतोपलक्षिता, ततोऽसौ तत्पादे पतितः, तत्र मात्रा स्वस्थीभूतयोक्तं पुत्र प्रव्रज, ततोऽसौ संयमं कर्तुमशक्नुवन् करोम्यनशनमित्युक्ते मात्राऽनुज्ञातः, तप्तशिलायां पादपोगमनेन क्षणादुष्णेन विलीनो नवनीतवत् कालगतः सुरोऽजनि ॥ ५७॥ पुट्ठो अदंसमसएहिं समरे व महामुणी । नागो संगामसीसे वा सूरो अभिहणे परं ॥८॥ ग्रीष्मानन्तरं वर्षा, तत्र च दंशादयः स्युरिति स्पृष्ट - अभिद्रुतः चः पूरणे, कैः ? दंशमशकः, उपलक्षणत्वाद्यूकादिभिश्च, सम एव रेफः प्राकृतत्वात् , महामुनिः, वा शब्द इवार्थे भिन्नक्रमश्चेति, नाग इव-हस्तीव, यथा शूरः, करी शरैस्तुद्यमानोऽपि सङ्ग्रामशीर्ष-रणशिरसि परं-शत्रुमभिहन्यात्-जयति, एवं साधुरपि क्रोधादिकं जयेत् दंशादिभिरभिदूयमानोऽपि ॥ ५८॥ कथमित्याह न संतसे न वारिजा मणपि न पओसए । उवेहे न हणे पाणे भुंजते मंस सोणियं ॥ ५९॥ कथा Jain Educati o nal For Private & Personal use only w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy