________________
उत्तरा० अवचूर्णिः
विनयाध्ययनम् १
॥१२॥
KOKaKOXOXOXOXOXOXOXOXOXOXO
पूज्यप्रसादने फलमाहपुज्जा जस्स पसीयंति, संबुद्धा पुव्वसंथुया । पस(संप पा०)ना लंभइस्संति, विउलं अद्वियं सुयं ॥ ४६॥ पूज्याः-आचार्यादयः विनीतशिष्यस्य प्रसीदन्ति -तुष्यन्ति, सम्यगज्ञाततत्त्वाः, पूर्व-वाचनादिकालादारतो, न तु वाचनादिकाल एव, तत्कालविनयस्य कृतप्रतिक्रियारूपत्वेन तथाविधप्रसादाजनकत्वात्, संस्तुता-विनयविषयत्वेन परिचिताः, प्रसन्नाः | संतो लाभयिष्यन्ति -प्रापयिष्यन्ति विपुलं-विस्तीर्ण अर्थो-मोक्षः प्रयोजनमस्येत्यार्थिक श्रुतं-साङ्गोपाङ्गं, अनेनानन्तरं फलं श्रुतमुक्त, व्यवहितं तु मुक्तिः ॥ ४६॥
सम्प्रति श्रुतावाप्तौ तस्यैहिकफलमाहस पुज्जसत्थे सुविणीयसंसए, मणोरुई (इं पा०)चिट्ठइ कम्म संपया (यं पा०) (मणिच्छियं संपयमुत्तमं गया पा०)
तवोसमायारीसमाहिसंवुडे, महज्जुई पंच वयाइँ पालिया ॥४७॥ सः विनीतशिष्यः पूज्यं-श्लाध्यं शास्त्रमस्येति पूज्यशास्त्रः, यद्वा पूज्यश्चासौ शस्तश्च, सु-अतिशयेन विनीतः अपनीतः संशयो यस्य सः, मनःप्रस्तावाद्गुरो रुचिरस्मिन् सः, तिष्ठति-आस्ते, कर्म-यतिक्रिया तस्याः सम्पदा उपलक्षित इति शेषः, तपसः * समाचारी समाधिः-चित्तस्वास्थ्यं च तैस्ताल्पां (ताभ्यां) वा संवृत्तो-निरुद्धाश्रवः, महती द्युतिः-तेजोलेश्या यस्येति महाद्युतिर्भव
तीति गम्यं, पञ्च व्रतानि पालयित्वा ॥४७॥
गुरुप्रसादने फलम्
॥१२॥
dan
For Privale & Personal use only