________________
BXOXOXOXOXOXOXOXOXOXX
विनीतकृत्यम्
मनोगतं तथा वाक्यगतं, कृत्यमिति शेषः, ज्ञात्वा गुरोः, तुशब्दात्कायगतकृत्यग्रहः, तन्मनोगतादिकृत्यं परिगृह्य- स्वीकृत्य ! इदमित्थं करोत्यात्मिकतया, कर्मणा-तन्निर्वर्तनात्मिकया क्रियया उफ्पादयेत्-विदधीत, अनेन सूक्ष्मो विनय उक्तः॥४३॥
विनीतो यादृग् स्यात्तदाह
वित्ते अचोइए निचं, खिप्पं हवइ सुचोयए। जहोवइटें सुकडं, किच्चाई कुचई सया ॥४४॥ | वित्तो-विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः-प्रसिद्धः, अचोदित एव - अप्रेरित एव प्रान्ते-प्रस्तावं गुरुकृत्येषु प्रवर्तते नित्यं, न कदाचिदेव, स्वयं प्रवर्तमानोऽपि प्ररितोऽनुशयवानपि स्यादिति शङ्काव्यपोहाय आह-शीघ्रं भवति-कृत्येषु प्रवर्तते, सुचोदके-शोभने प्रेरयितरि, गुराविति गम्यं, नानुशयनाद्विलम्बितमेवेत्यर्थः, यथोपदिष्टानतिक्रमेण सुष्ठ परिपूर्ण कृतं यथा स्यादेवं कृत्यानि करोति सदा ॥४४॥ अथोपसंहर्तुमाह -
नचा नमइ मेहावी, लोए कित्ती य (प्र० सि) जायइ ।
किचाणं सरणं होई (प्र. भवइ किच्चाणं सरणं), भूयाणं जगई जहा ॥४५॥ नच्चा-ज्ञात्वा अनन्तरोक्तमखिलमध्ययनार्थ नमति-तत्कृत्यं प्रति प्रह्वीभवति मेधावी-अध्ययनार्थावधारणशक्तिमान मर्यादावर्ती वा, तद्गुणं वक्तुमाह-लोके कीर्तिः तस्य जायते-प्रादुर्भवति, तथा भवति स एव कृत्यानां-उचितानामनुष्ठानानां, | अत्यन्तमविनीतैः खेदितानां कृत्यानामाचार्यादीनां च शरणं-आश्रयः भूतानां-प्राणिनां जगती यथा ॥४५॥
KeKEXeKO-XCXGXOKeXOXOXOKOKE
Ko
Jain Educat
i onal
For Private & Personal use only
w.jainelibrary.org