________________
विनयाध्ययनम् १
उत्तरा०
कथञ्चित्कुपिते यत्कृत्यं तदाहअवचूर्णिः आयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्झविजा पंजलिउडे, वएज्जा न पुणो त्ति य॥४१॥
___ आचार्य-गुरुं कुपितं - सकोपमननुशासनादृष्टिदानादिभिश्च ज्ञात्वा, आर्षत्वात्प्रतीतिः प्रयोजनमस्य प्रातीतिक-शपथादि तेन, सर्वमपि वा प्रतीत्युपपादकं वचःप्रातीतिकं तेन, प्रीत्या-साम्नैव वा, न भेददण्डाद्युपदर्शनेन, प्रसादयेत् -प्रसादं नयेत्,
एतदेवाह-विध्यापयेत् -कथश्चिदुदीरितकोपानलमप्युपशमयेत्, प्रकृताञ्जलि: प्राञ्जलिपुटो वा, इत्थं कायिकं मानसं च * विध्यापनोपायमभिधाय वाचिकमाह-विध्यापयन् वदेत् - ब्रूयात्, चशब्दस्य भिन्नक्रमत्वाद्वदेदित्यनन्तरं द्रष्टव्यः, यथेदं प्रमादाचरितं क्षमितव्यं, न पुनरित्थमाचरिष्यामीति ॥४१॥
सम्प्रति यथाऽऽचार्यकोप एव न स्यात्तथाऽऽहधम्मज्जियं च ववहारं, बुद्धेहिं आयरियं सया। तमायरंतो ववहारं (मेहावी पा०), गरिहं नाभिगच्छइ॥४२॥
धर्मेण-क्षान्त्यादिनार्जितं- उपार्जितं धर्मोपाजितं, चः पूरणे, विविधं विधिवद्धा अवहरणमनेकार्थत्वादाचरणं व्यवहारस्तंयतिकर्तव्यतारूपं, ज्ञाततत्त्वैराचरितं, सदा प्रसिद्ध आचरन् , यद्वा “यत्तदोर्नित्याभिसम्बन्धात्" "सुब् व्यत्ययाच्च” यो धार्जितः चस्य भिन्नक्रमत्वात् बुद्धराचरितश्च व्यवहारस्तमाचरन् -कुर्वन् , विशेषेणापहरति कर्मेति व्यवहारस्तं, व्यवहारविशेषणमेतत् , अविनीतोऽयमेवंविधां निन्दा नाभिगच्छति-न प्रामोति यतिरिति गम्यम् ॥ ४२ ॥
किं बहुना?मणोगयं (रुई पा०) वक्तगयं (रुइं पा०), जाणित्ता आयरियस्स उ । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥४३॥
XOXOXOXOXOXOXXXXXXX
कुपितगुरुप्रति शिष्यकृत्यम्
SwasanewHEmmar
Jain Educatiokotional
For Privale & Personal use only
CORD.jainelibrary.org