________________
समुद्र पालीयमध्ययनम्
२१
उत्तरा०
अथ एकविंशं समुद्रपालीयमध्ययनम् । अवचूर्णिःIX
---- - - - ॥१७॥
अनन्तराध्ययने अनाथत्वमनेकधोक्तं, इह तु तदालोचनाद् विविक्तचर्ययैव चरितव्यमित्यभिप्रायेण सैवोच्यते, अस्य च समुद्रपालीयमिति नाम, इदमुत्तरं चाध्ययनं प्रायः सोपस्कारतया व्याख्यास्यते
चंपाए पालिए नाम, सावए आसि वाणिए । महावीरस्स भगवओ, सीसो सो उ महप्पणो ॥ ७५९ ॥ चंपाए इत्यादि गाथाः १० प्रायः सुगमाः, नवरं (१०४९)-चम्पायां पालितो नाम सार्थवाहः श्रावकः आसीत्-अभूत्, वणिगेव वणिजो-वणिग्जातिः, महावीरस्य भगवतः शिष्यः, स तुर्विशेषणे महात्मनः(त्मा)-प्रशस्यात्मनः(त्मा)॥१॥७५९॥ स च कीदृगित्याह
निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नयरमागए ॥ ७६० ॥ निर्ग्रन्थे-निर्ग्रन्थसम्बन्धिनि प्रवचने श्रावकः स पालितः विशेषेण कोविदः, विदितजीवादितत्त्व इत्यर्थः, पोतेन व्यवहरन्प्रवहणवाणिज्यं कुर्वन् पिहुण्डं-पिहुण्डनामकं नगरमागतः-प्राप्तः ॥२॥ ७६० ॥
पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पथिओ॥ ७६१॥
XXXoxoxoxoXXXXXX
पालितस्य पिहुण्डगमनम्
KeXOKOKeXOXOXeko
॥१७॥
Sain Education International
For Privale & Personal use only
www.jainelibrary.org