________________
उत्तरा० अवचूर्णिः ॥१६६॥
महानिग्रन्थीयमध्ययनम्
XXXXXXXXXXXX
स चैवंविधः पोल्लैव-अन्तःशुषिरैव न मनागपि निविडा मुष्टिः, यथेति सादृश्ये, असारा तथा सोऽपि, असारत्वं चोभयोरपि. सदर्थशून्यतया, अयन्त्रितः-अनयमितः कूटकार्षापण, स हि न केनचित्कूटतया नियन्त्र्यते, तथैषोऽपि गुरूणामप्यविनीततयोशपेक्षणीयत्वात् राढमणिः-काचमणिः वैडूर्यमणिसदृशः, अमहार्घकश्च-अमहामूल्यो भवति, चः-समुच्चये, स च प्राग्योजित एव, मुग्धजनविप्रतारकत्वात् तस्य ॥ ४२ ॥ ७४०॥
कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय व्हइत्ता। ____ असंजए संजय लप्प( लाभ पा० )माणे, विणिघायमागच्छइ से चिरंपि ।। ७४१ ॥ कुशीललिङ्गं-पार्श्वस्थादिवेषं, इहास्मिन् जन्मनि ऋषिध्वजं मुनिचिह्न रजोहरणादि, आर्षत्वात् जीविकायै बृंहयित्वा-प्रधानमिति ख्यापनेनोपबृंह्य, यद्वा सुब्व्यत्ययात् ऋषिध्वजेन बिन्दुलोपात् जीवितं-असंयमजीवितं जीविकां वा-निर्वाहणोपायरूपां |बृंहयित्वा-पोषयित्वा, अत एव असंयतः सन् सोपस्कारत्वात्संयतमात्मानं लपन विनिघातं-विविधाभिघातरूपं आगच्छतिआयाति, सुचिरमपि, आस्तां अल्पकालं, नरकादाविति भावः॥ ४३ ॥ ७४१॥ ___ इहैव हेतुमाह
विसं तु पीयं जह कालकूडं, हणाइ सत्थं जह कुग्गहीयं । एसेव धम्मो विसओववन्नो, हणाइ वेयाल इवाविवन्नो (बंघणो पा०) ७४२॥ विषं, तुः चार्थे अग्रे योक्ष्यते, पीतं यथा कालकूटं हन्ति शस्त्रं च, यथा कुत्सितं गृहीतं कुगृहीतं, एष एव विषादिवत् |
महानिर्भन्थ
मार्गे गमनता
॥१६६॥
Jain Education
For Private & Personal use only
Alinelibrary.org