SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ XOXXXXXXXXXXX तोऽहं नाहो जाओ, अप्पणो अ परस्स य । सवेसिं चेव भूयाणं, तसाणं थावराण य ॥ ७३३ ॥ तत इति प्रव्रज्याप्रतिपत्तेरहं नाथो जातः, आत्मनः-स्वस्य परस्य च-अन्यस्य पुरुषादेः सर्वेषां चैव भूतानां-जीवानां त्रसानां | स्थावराणां च ॥ ३५ ॥ ७३३ ॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः पुरा तु नेत्याह अप्पा नई वेयरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥ ७३४॥ अप्पागाथाद्वयं, व्यवच्छेदफलत्वाद्वाक्यस्य आत्मैव नान्यः कश्चित् नदी वैतरणी, तद्धेतुत्वात्, अत एव चात्मैव कूटमिव * | जन्तुयातना हेतुत्वात्, शाल्मली-नरकोद्भवा कूटशाल्मली, तथा आत्मैव कामान्-अभिलाषान् दोग्धि-कामितार्थप्रापकतयार प्ररूपयति कामदुधा धेनुः, इयं च लोकरूढित उक्ता, एतदुपमत्वं चाभिलषितस्वर्गापवर्गाप्तिहेतुतया, आत्मैव मे-मम नन्दनं सुखदुःखानां वनं-उद्यानं, एतदौपम्यं चास्य चित्तप्रल्हत्तिहेतुतया ॥३६॥ ७३४॥ यथा चैतदेवं तथाह कर्ता आत्मैव अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठियसुपढिओ॥ ७३५ ।। ___ आत्मैव कर्त्ता, दुःखानां सुखानां चेति योगः, प्रक्रमादात्मन एव, विकरिता च-विक्षेपकश्चात्मैव तेषामेव, अतश्चात्मैव मित्रंउपकारितया सुहृत्, अमित्रश्च-अपकरितया दुईत् , कीग सन् ? दुष्टं प्रस्थितः-प्रवृत्तो, दुराचारविधातेत्यर्थः, सुप्रस्थितः-सदनुष्ठानकर्तेत्यर्थः, एतयोविशेषणसमासः, दुष्प्रस्थितो ह्यात्मा सर्वदुःखहेतुरिति वैतरिण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः, तथा च प्रव्रज्यावस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगक्षेमकरणे समर्थत्वेन नाथत्वमिति भावः॥३७॥७३५॥ For Privale & Personal use only A Jain Educatio llational w.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy