________________
उत्तरा अवचूर्णिः
विनयाध्ययनम् १
भिक्षाग्रहण
यत्रान्यभिक्षुकासम्भवस्तत्र विधिरुक्तो, यत्र च पुराऽऽयातान्यभिक्षुकसम्भवस्तत्र विधिमाह
नाइदूरमणासण्णे, नन्नेसिं चक्खुफासओ। एगो चिटेज भत्तहा, लंधित्ता तं नइक्कमे ॥ ३३ ॥ विभक्तिव्यत्ययान्नातिदूरे, तत्र तन्निर्गमावगमैषणाशुद्ध्यसम्भवात् , तथा न आसन्ने भिक्षुकाप्रीतिसम्भवात् , नान्येषां-भिक्षुकापेक्षया परेषां गृहस्थानां चक्षुःस्पर्शतः, "सप्तम्यर्थे तसि” चक्षुःस्पर्शे-दृग्गोचरे तिष्ठेदिति सर्वत्र योज्यं, किन्तु यथा गृहिणो न विदन्ति, यदुतैष भिक्षुप्रनिष्क्रमणं प्रतीक्षत, इति एकः पुराप्रविष्टोपरि द्वेषरहितः भक्तार्थ लड्वित्वा समुल्लङ्ग्य तं-भिक्षुकं नातिकामेत्-न प्रविशेत् , तदप्रीत्यपवादादिसम्भवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत्पुनर्भिक्षाटनाभिधानं तद्ग्लानादिनिमित्तं स्वयं वा क्षुद्वेदनीयासहिष्णोः पुनर्भमणं न दोषायेति ज्ञापनार्थ, उक्तञ्च-"जइ तेण संथरे, तओ कारणमुप्पन्ने" इत्यादि ॥ ३३ ॥
पुनस्तद्गतविधिमाहनाइउच्चे नाइनीए (प्र०वनीए वा), नासन्ने नाइदूरओ । फासूयं परकडं पिंडं, पडिगाहिज संजए ॥ ३४ ॥ नात्युच्चे-प्रासादोपरि मालादौ नीचे वा-भूमिगृहादौ, तत्रैषणाऽसम्भवात् दायकापायसम्भवाच्च, यद्वा उच्चस्थानस्थितत्वेन ऊवीकृतकन्धरतया वा भावतश्च अहो लब्धिमानहमिति मानवान , द्रव्यतो नीचोऽत्यन्तावनतकन्धरो निम्नस्थानास्थितो वा, भावतस्तु न मयाऽद्य किंचित्कुतो वाऽप्यवाप्तमिति दैन्यवान् , तथा नासन्ने - समीपवर्तिनि नातिदूरे स्थित इति गम्यते, यथा
विधिः
XOKOKEKEKOKeXON
॥९
॥
Jain Education
nal
For Private & Personal use only
031ainelibrary.org