________________
XOXOXOXOXOXOXOXOXOXOXOX
सम्प्रति चरणविनयात्मिकामेषणासमितिमाह
कालेण निक्खमे भिक्खू, कालेण य पडिकमे । अकालं च विवजित्ता, काले कालं समायरे ॥३१॥ ___ सप्तम्यर्थे तृतीया, ततः काले-प्रस्तावे निष्कामेत्-गच्छेत् भिक्षुः, अकालनिर्गमे आत्मक्लामनादि(दोष)सम्भवात् , तथा काले च प्रतिक्रामेत- प्रतिनिवर्तेत, भिक्षाटनादिति शेषः, कदाचिदलाभेऽल्पलामे वा नाटन्नेवावतिष्ठेत् , किमित्येवमत आह-अकालंतक्रियाकाण्डं असमयं चेति, यस्माद्विवयं काले-प्रस्तावे कालं-तत्कालोचितं क्रियाकाण्डं समाचरेत् , अन्यथा कृषीवलकृषिक्रियाया इवाभिमतफलोपलम्भाऽभावात् ॥ ३१॥
निर्गतश्च यत्कुर्यात्तदाह
परिवाडिए न चिट्ठिज्जा, भिक्खू दत्तेसणं चरे। पडिस्वेण एसित्ता, मियं कालेण भक्खए ॥ ३२॥ __ परिपाट्यां- गृहपङ्कौ न तिष्ठेत्-पतिस्थगृहभिक्षोपादानाय नैकत्रावस्थितो भवति, तत्र भिक्षामाददानस्य दायकदोषानवगमप्रसङ्गात् , यद्वा भोक्तुमुपविष्टपुरुषपङ्क्तयां न तिष्ठेत्-भिक्षार्थ नास्ते, तत्राप्रीत्यदृष्टकल्याणकादिदोषसम्भवात्, दत्तं -दानं तस्मिन् गृहिणा दीयमाने एषणां-तद्गतदोषान्वेषणात्मिकां चरेत् -आसेवेत, अनेन ग्रहणैषणोक्ता, प्रतिरूपेण-चिरन्तनमुनीनां प्रतिबिम्बेन पतग्रहादिधारणात्मकेन, न तु परतीर्थिकवच्छत्रच्छात्रादिविभूषणात्मकेन, एषयित्वा-गवेषयित्वा, अनेन च गवेषणोक्ता. ग्रासैषणामाह-मित-परिमित, अतिभोजनात् स्वाध्यायविघातादिबहुदोषसम्भवात, कालेन-"नमुक्कारेण पारित्ता, | करित्ता जिणसंथव"मित्याद्यागमोक्तप्रस्तावेन अद्रुताविलम्बितरूपेण वा भक्षयेत्-भुञ्जीत ॥ ३२ ॥
OXOXOXOXOXOXOXOXOXOKOKEKOK
भिक्षाग्रहण
विधिः
Sain Educati 12
tonal
For Privale & Personal use only
Banjainelibrary.org