________________
उत्तरा० अवचूर्णिः
विनयाध्ययनम् १
॥८॥
विगयभया बुद्धा, कमप्यनुशासनं गुरुकृत मन्त्र ज्ञानादिगुणस्थानम् ॥ २
किं हितकरमप्यनुशासनं कस्यचिदन्यथापि सम्भवतीत्याह
अणुसासणमोवायं, दुकडस्स य पेर(प्र०चोय)णं । हियं तं मन्नए पण्णो, वेस्सं भवइ असाहुणो ॥२८॥ उक्तरूपं उपाये-मृदुपरुषभाषणादौ भवमौपाय, दुष्कृतस्य चोदनं-प्रेरणं-हा ! किमिदमित्थमाचरितमित्यादिरूपं, गुरुकृतमिति गम्यते, इहपरलोकोपकारि, तदनुशासनं मन्यते प्रज्ञावान् ॥ २८ ॥
अमुमेवार्थ स्पष्टयन्नाहहियं विगयभया बुद्धा, फरुसमप्पणुसासणं । वेस्सं तं होइ मूढाणं, खंतिसुद्धि(प्र०सोहि)करं पयं ॥ २९॥ विगतभया बुद्धाः-तत्त्वज्ञाः, कर्कशमप्यनुशासनं गुरुकृतं मन्यन्त इति शेषः, द्वेष्यं-द्वेषोत्पादि अनुशासनं मूर्खाणां | क्षान्तिः-क्षमा शुद्धिः-आश्रयशुद्धिता तत्करं, यद्वा क्षान्तेर्निर्मलता तत्करं ज्ञानादिगुणस्थानम् ॥ २९ ॥
पुनर्विनयमाह
आसणे उवचिट्ठिजा, अणुच्चेकुक्कुए(प्र०अकुए)थिरे। अप्पुत्थाई निरुत्थाई, निसीजा अ(प्र०इज)प्पकुकुई वर्षासु पीठादौ ऋतुबद्धे तु पादपुञ्छने आसने उपविशेत्, अनुच्चे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ, गुर्वासनादिति | गम्यते, अकुचे-अस्पन्दमाने, किंचिच्चलस्य शृङ्गाराङ्गत्वात् , स्थिरे-समपादप्रस्थिते, अन्यथा विराधनासम्भवात् , ईदृशेऽप्या| सने अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थायी, निरुत्थायी-निमित्तं विना नोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वभावात् , एवंविधः सन् निषीदेत्, अल्पस्पन्दनः, करचरणादिभिरल्पमेव चलन्, यद्वा-अल्पशब्दोऽभावार्थः, ततश्चाल्पंअसत्कौत्कुचं-करोहिधूभ्रमणाद्यसच्चेष्टात्मकमस्येत्यल्पकौत्कुचम् ॥ ३०॥
EXXXXXXXXXXXXX
विनयः
JainEducation
a l
For Privale & Personal use only
Nihelibrary.org