________________
आत्मार्थ-आत्मप्रयोजनं परप्रयोजनं वा उभयोरात्मनः परस्य चान्तरेण विना वा प्रयोजनं, भाषादोष परिहरेदित्यनेनैव गते पृष्टविषयत्वादस्य न पौनरुत्यं, यद्वा भाषादोषो जकारमकारादि तत्र गृह्यत इति न दोषः, अनेन सूत्रद्वयन वाग्गुप्त्यभिधानाचारित्रविनय उक्तः ॥२५॥
उपाधिकृतदोषत्यागमाह
समरेसु आगारेसुं, गिहसंधिसु य महापहे । एगो एगित्थीए सद्धिं, नेव चिट्ठन संलवे ॥ २६ ।। खरकुटीषु, तथा च चूर्णिकृत्-“समरं नाम जत्थ लोहारा हिट्ठाकम्मं करिंति" नीचास्पदानीमुपलक्षणं, गृहेषु सन्धिषुगृहद्वयान्तरालेषु, राजमार्गादौ, एकाकी एकाकिन्या स्त्रिया सार्द्ध नैव तिष्ठेत् न च संलपेत् , एकग्रहणमत्यन्तदुष्टदोषोद्भावनार्थ, अन्यथाप्येवंविधस्थानेषु स्त्रीसम्भाषणादिदोषायैवेति ॥ २६ ॥
शिक्षितः सन् यत् कुर्यात्तदाह
जं मे बुद्धाऽणुसासंति, सीएण(प्र० सीलेण) फरुसेण वा। मम लाभुत्ति पेहाए, पयओ य(तं) पडिस्सुणे ॥२७॥ यन्मां बुद्धाऽनुशासन्ति शीतेन-सोपचारवचसा, परुषेण-कर्कशेन वा, मम अप्राप्ताऽर्थप्राप्तिरूपोऽयं यम्मामनाचारकारिणं समाशासतीतिप्रकारेण, एकारस्यालाक्षणिकात्प्रेक्ष्य-आलोच्य, एवंविधप्रेक्षया बुद्ध्या वा प्रयतः-प्रयत्नवान् , तद्-अनुशासन प्रतिशृणुयात्-विधेयतयाऽङ्गीकुर्यात् ॥ २७ ॥
शिक्षितस्य कृत्यम्
JainEducathori
For Private & Personal use only
Sinebrary.org