________________
उत्तरा० अवचूर्णिः
विनयाध्ययनम् १
प्रीत्यात्मकेन कृतोऽञ्जलिः-करद्वयमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वात्कृतशब्दस्य परनिपातः, प्रकृष्ट-भावान्विततयाऽञ्जलिपुटमस्येति वा सः॥२२॥ __ अथ शिष्यं प्रति गुरुकृत्यमाह
एवं विणयजुत्तस्स, सुत्तं अत्थं (प्र० च) तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥ २३ ॥ उक्तप्रकारेण विनययुक्तस्य कालिकोत्कालिकादिसूत्रस्यैवाभिधेयं, तदुभयं-सूत्रार्थोभयं पृच्छतो-जिज्ञासोः स्वदीक्षितस्योपसम्पन्नस्य वा, व्यागृणीयात्-व्याकुर्यात् येन प्रकारेण श्रुतं-आकर्णितं, गुरुभ्य इति गम्यं, न तु स्वबुद्ध्यैवोत्प्रेक्षितम् ॥ २३ ॥
शिष्यस्य विनयमाहमुसं परिहरे भिक्खू, न य ओहारिणीं वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ असत्यं-भूतनिह्नवादि सर्वप्रकारं त्यजेत् साधुः, नैवावधारणीयां-गमिष्याम एवेत्यादिरूपां वाचं वदेत् , किंबहुना ?, भाषादोषंअसत्यभाषणादिकं सावधानुमोदनादिकं, "म च कारणोच्छेदं विना कार्योच्छेद" इत्याह-शाठ्यं चशब्दात्क्रोधादींश्च मृषाहेतून् वर्जयेत् ॥ २४॥
किं च
न लविज पुट्ठो सावजं, न निरट्टं न मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५॥ न लपेत् पृष्टः सावधं न निरर्थक-निःप्रयोजनं, न मर्मगं 'त्वं चौरः काण' इत्यादि, जन्मकादि, संक्लेशोत्पादकत्वात् ,
शिष्यं प्रतिगुरुकृत्यम्
JainEducation
For Private & Personal use only
B
ipinelibrary.org