SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ भोजनविधिः योगं जुगुप्साशङ्कषणाशुद्धयसम्भवादिदोषसम्भवात् , अथवा अत एव नासन्नो नातिदूरगः, प्रासुकं-सहजसंसक्तिजन्तुरहितं, परेण-गृहिणा आत्मार्थ परार्थ वा कृतमाहारं प्रतिगृह्णीयात्-स्वीकुर्यात् यतिः॥३४॥ गाथाद्वयेन गवेषणाग्रहणैषणाविधिमुक्त्वा ग्रासैषणाविधिमाहअप्पपाणेऽप्पबीए वा(प्र०यम्मि), पडिच्छन्ने य(प्रन्नम्मि)संवुडे । समयं संजओ भुंजे,जयं अप्परिसाडियं ॥ ३५॥ __ अल्पा-अविद्यमानाः प्राणिनो यस्मिंस्तस्मिन्नवस्थितागन्तुकजन्तुरहिते उपाश्रयादौ, तथाऽल्पबीजे उपलक्षणत्वात् सर्वैकेन्द्रियरहिते प्रतिच्छन्ने-उपरि प्रावृते सम्पातिमसत्त्वरक्षार्थ, संवृते-पार्श्वतः कटकुड्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिषु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषात् , समक-अन्यसाधुभिः सह, न त्वेकाक्येव रसलम्पटतया, यद्वा सममेव समकं-सरसादिष्वभिष्वङ्गादिरहितः भुञ्जीत-अश्नीयात्, यतमानः-सुरसुरचवचवकसरककरुडकभरुडाद्यकुर्वन् , परिशाटरहितम् ॥ ३५ ॥ वाग्यतनामाहसुकडंति(प्राडित्ति) सुपकं ति, सुच्छिन्नं सुहडे मडे । सुनिट्टिए सुलहित्ति, सावजं वजए मुणी ॥ ३६॥ सुकृतमन्नादि सुपक्कं-घृतपूर्णादि, इत्युभयत्र प्रदर्शने, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं-शाकतिक्तत्वादि घृतादि वा सूप*विलेपिकादि वा, प्रक्रमात्सुमृतं घृतादि सक्तुसूपादौ, सुनिष्ठितं-रसप्रकर्षात्मिकां गतं, सुलष्ट-सर्वप्रकारेण शोभनमोदनादि सुस्वादसिक्स्थत्वादिना, इत्येवंप्रकारमन्यदपि सावद्यं वचो वर्जयेत् , निरवद्यं तु भाषते यथाक्रम, सुकृतमनेन धर्मध्यानादि १, वचनविज्ञानादि २, स्नेहादि ३, शैक्षादि ४, पण्डितमरणेन ५, साध्वाचारे ६, अस्य तपोऽनुष्ठानम् ७ ॥ ३६॥ XoloXXXFOXOX Sain Educati o nal For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy