________________
तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई ॥७०५॥ पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोके एव प्रणामः क्रियते इति स्थापनार्थ, तथा चागमः-"आलोए जिणपडिमाणं पणामं करे” इति, प्राञ्जलिः प्रतिपृच्छति-प्रश्नयति ॥७॥७०५॥ तरुणोसि अजो! पवइओ, भोगकालंमि संजया!। उवडिओ(हितोपा०)ऽसि सामन्ने, एअमटुं सुणेमु ता ॥७०६॥
तरुणेत्यादिना प्रश्नस्वरूपमुक्तं, इह च यत एव तरुणोऽत एव भोगकाले प्रवजित इत्युच्यते तारुण्यस्य भोगकालत्वात् , यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमुक्तं, सोऽपि कदाचित् संयमे अनुद्यत एव स्यादिति त्वं पुनः उपस्थितोऽसि एवमर्थ-निमित्तं, येनार्थेन त्वमीश्यामप्यवस्थायां प्रव्रजितः शृणोमि, ता इति तावत् पश्चात्तु यत्त्वं भणिष्यसि * तदपि श्रोष्यामीति भावः॥ ८॥ ७०६॥ * मुनिराह
अणाहो मि महारायं, नाहो मज्झ न विजई । अणुकंपयं सुहिं वावि, कंची नाहि तुमे(नाभिसमे पा०)महं ॥७०७॥ ___ अनाथः-अस्वामिकोऽस्मि अहं, महाराज-प्रशस्यनृपते !, किमित्येवं ?, यतो योगक्षेमविधाता मम न विद्यते, तथा अनु- 1 कम्पकं सुहृदं वापि कञ्चिदपि नाभिसमेमि-नाभिसङ्गच्छामि, न केनचिदनुकम्पनेन सुहृदा वा सङ्गतोऽहमित्यादिना अर्थेन तारुण्येऽपि प्रत्रजितोऽहमिति भावः॥९॥७०७॥
श्रेणिकप्रश्ने नाथाभवकथनम्
Jain Educatio
n
al
For Privale & Personal use only
M
ainelibrary.org