________________
॥ अथ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् ॥
महानिग्रन्थोपक्रमः
अनन्तराध्ययने निष्प्रतिकर्मतोक्ता, सा चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितां तामभिधातुमनाथतैव अनेकधा अनेनोच्यतेसिद्धाण नमो किच्चा, संजयाणं च भावओ। अत्थधम्मग(व पा०)इ तचं, अणुसिडिं सुणेह मे ॥ ६९९ ॥
अस्य च महानिर्ग्रन्थीयं नाम, सिद्धेभ्यः-तीर्थकरसिद्धेभ्य इतरेभ्यश्च, नमो-नमस्कारं कृत्वा संयतेभ्यः-सर्वसावधव्यापारोपरतेभ्यः, आचार्योपाध्यायसर्वसाधुभ्य इति यावत् , भावतः-परमार्थतो, न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमाह-अर्थश्च धर्मश्चार्थधौं, यद्वा अर्थ्यते-हितार्थिभिरभिलष्यत इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्तयोस्तस्य वा गतिः-गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणस्वरूपज्ञानं यया यस्यां वा साऽर्थधर्मगतिस्तां, तत्त्वां-अविपरीतां अनुशिष्टिंहितशिक्षां शृणुत-आकर्णयत, मे इति मम, मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरवचनमेतत् , इह चानुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनं, अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्तः॥१॥ ६९९ ॥ सम्प्रतिधर्मकथानुयोगद्वारेण प्रतिज्ञातमेवोपक्रमितुमाह
पभुयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ॥ ७००॥
Jain Educati
o
nal
For Privale & Personal use only
lawjainelibrary.org