________________
मृगचर्यारूपं
SXE-KE-KEKOXOXOXOXOXOXOXOXOM
एवं मृगवत् समुत्थितः-संयमानुष्ठानं प्रत्युद्यतः तथाविधातकोत्पत्तावपि (न) चिकित्साभिमुख इति भावः, एवमेव-मृगवदेवानेकगोपनियतस्थानस्थतया, स चैवं-मृगचर्या चरित्वा मृगवदातङ्काभावे भक्तपानार्थ गोचरं गत्वा तल्लन्धभक्तपानोपष्टम्भतश्च सम्यग्ज्ञानादि भावतः शुक्लध्यानारोहणादपगताशेषकर्माशः ऊर्ध्व दिशं प्रक्रामन्ति, सर्वोपरिस्थानस्थितो भवतीत्यर्थः, एवं च निवृतेरेवेह मृगचर्योपमाऽर्थत उक्ता, तथा हि मृगोपमा मुनयः इत इतश्चा प्रतिबद्धविहारितया विहृत्य गच्छन्तीति ॥८२॥६८२॥ मृगचर्यामेव स्पष्टयितुमाह
जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ।
एवं मुणी गोयरियं पविढे, नो हीलए नोवि य खिंसइज्जा ॥ ६८३ ॥ यथा मृग एकः-अद्वितीयः, अनेकचारी-नैकत्र भक्तपानार्थ चरतीत्येवंशीलः, नैकत्रैव वासः-अवस्थानमस्यास्तीत्यनेकवासः, ध्रुवगोचरश्च-सदा गोचरलब्धमेवाहारमाहारयति, एवं-मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्या प्रविष्टो नो हीलयेत्-अवजानीयात् कदशनादीति गम्यं, नापि च निन्देत् , तथाविधाहाराप्राप्तौ स्वं परं वा, इह च मृगपक्षिणामुभयेषां उपक्षेपे यन्मृगस्यैव पुनः पुनः दृष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति भावः॥८३ ॥ ६८३ ॥ एवं मृगचर्यास्वरूपमुक्त्वा यत्तेनोक्तं यच्च पितृभ्यां, पितृवचनानन्तरं यदसौ कृतवांस्तदाह
मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिऊहिंऽणुण्णाओ, जहाइ उवहिं तओ॥ ६८४ ॥ मिगेत्यादि गाथा ४ । मृगस्यैव चर्या-निष्पतिकर्मतादिरूपां चेष्टां करिष्यामीति बलश्रियोक्ते पितृभ्यामभाणि-एवं यथा
PXXXXXXXXXXXX
श्रामण्यम्
उत्तरा०२७
Jain Education
fonal
For Privale & Personal use only
Boilmjainelibrary.org