________________
उत्तरा०
अवचूर्णिः
॥ १५६ ॥
Jain Education
XXXXX
चिकित्सके चासति को वा समुच्चये से तस्य औषधं ददाति, आहृत्य-आनीय, प्रणामयेत् - अर्पयेत् 'अपैः पणाम' इति वचनात् ॥ ७९ ॥ ६७९ ॥
कथं तर्हि तस्य निर्वहणमित्याह
जयाय से सुहि होइ, तथा गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लुराणि सराणि य ॥ ६८० ॥ यदा च स सुखी भवति, स्वत एव रोगाभावादिति गम्यं, तदा गच्छति-याति गौरिव परिचितेतरभूभागपरिभावनारहितत्वेन चरणं- भ्रमणं यस्मिन्निति गोचरस्तं, भक्तमिव भक्तं तद्भक्तं- तृणादि तच्च पानं च तस्य अर्थाय प्रयोजनाय, गोचरमेव विशेषत आह-वल्लराणि - गहनानि, उक्तञ्च - " गहणमवाणियदेसं रणे छेत्तं च वल्लरं जाण" इति सरांसि च - जलाश्रयाः ॥ ८० ॥ ६८० ॥ खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि य । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥ ६८१ ॥ खादित्वा निजभक्ष्यमिति गम्यं, पानीयं पीत्वा सुब्व्यत्ययात् वल्लरेषु सरस्सु च, तथा मृगाणां चर्या - इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां मृगचारितां वा-परिमितभक्षणात्मिकां चरित्वा- आसेव्य, परिमिताहारा एव हि स्वरूपेणैव मृगा भवन्ति, गच्छति मृगाणां चर्या - स्वातन्त्र्योपवेशनादिका चेष्टा यस्यां सा मृगाश्रयभूस्तां, विशेषाभिधायित्वान्न पौनरुक्त्यम्
॥ ८१ ॥ ६८१ ॥
इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनात्मन्येव दृष्टान्तोपसंहारमाह
एवं समुट्ठिए भिक्खू, एवमेव अणेगए (अणिएयणे पा० ) । मिगचारियं चरित्ता णं, उड्डुं पक्कमई दिसं ॥ ६८२ ॥
For Private & Personal Use Only
XXXX
pay-aX-XXX-Xbx
X X X X X X X X X
मृगापुत्री
याख्यम
ध्ययनम्
१९
मृगचर्यारूपं
श्रामण्यम्
॥ १५६ ॥
ainelibrary.org