________________
प्रबजितो भवेत्यर्थः, नवरं-केवलं पुनर्विशेषः श्रामण्ये-श्रामणभावे, दुःख-दुःखहेतुः निष्प्रतिकर्मता, कथञ्चिद्रोगोत्पत्ती चिकित्साऽकरणरूपा ॥ ७५ ॥ ६७५॥
सो बिंतऽम्मापियरो, ! एवमेयं जहाफुडं । परिकम्मं को कुणई, अरन्ने मिगपक्खिणं? ॥ ६७६ ॥ ___इत्थं जनकाभ्यामुक्ते सो वितेत्यादि गाथाष्टकं, स मृगापुत्रः आर्षत्वात् अम्बापितरौ एवमेतद्यधुवाभ्यामुक्तं, तथा स्फुट
सत्यतामनतिक्रान्तं परं परिभाव्यतामिदं परिकर्म कः करोति ?,न कश्चिदित्यर्थः, व ? अरण्ये, केषां-मृगपक्षिणां, अथ वैतेऽपि | |जीवन्ति चरन्ति च, किं ततः ?, किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ६७६ ॥ एगभूओ अरन्ने वा, जहा ऊ चरई मिगो । एवं धम्म चरिस्सामि, संजमेण तवेण य ॥६७७॥
मृगचर्यारूपं __ यतश्चैवमत एगेत्यादि सर्व स्पष्टमेव, नवरं एकभूतः-एकत्वं प्राप्तोऽरण्ये, वा पूरणे, यथैव चरति मृगः, एवमेकभूतः संश्च
श्रामण्यम् | रिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥ ६७७ ॥
जया मिगस्स आयंको, महारणंमि जायई । अच्छंतं रुक्खमूलंमि, को णं ताहे चिगिच्छई ॥६७८॥ आतङ्कः-आशुघाती रोगः, महारण्ये इति महाग्रहणं अमहति शरण्ये कश्चित् कदाचित् पश्येत् दृष्ट्वा च चिकित्सेदपि, 18 श्रूयते हि "केनचित् वैद्येन व्याघ्रस्य चक्षुरुद्घाटितमटव्या"मिति, वृक्षमूले इति तथाविधावासाभावदर्शनं, कोणंति क एनं मृगं तदा-आतङ्कोत्पत्तिकाले चिकित्सति-औषधाधुपदेशेन नीरोगं कुरुते ?, न कश्चिदित्यर्थः॥ ७८ ॥ ६७८ ॥
को वा से ओसहं देइ, को वा से पुच्छई सुहं । को से भत्तं व पाणं वा, आहरित्तु पणामई ॥ ६७९ ॥
Jain Education
Conal
For Privale & Personal use only
On jainelibrary.org