________________
उत्तरा० अवचूर्णिः ॥१५५॥
XOXOXOXOX
मृगापुत्रीयाख्यमध्ययनम्
एव च महद्भयं याभ्यस्ता महाभयाः, भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वैतान्यत्यन्तभयोत्पादनायोक्तानि, वेदना इति प्रक्रमः ॥७२॥ ६७२॥
जारिसा माणुसे लोए, ताया : दीसंति वेयणा । इत्तो अणंतगुणिया, नरएसुं दुक्खवेयणा ॥ ६७३ ॥ कथं पुनस्तस्यास्तीत्रादिरूपत्वमित्याशब्याह-वेदनापेक्षया नरकदुःखवेदनाया अनन्तगुणत्वमुक्तं हे तात! प्रक्रमाहुःखवेदना, इतः-इहत्य दुःखवेदनायाः॥ ७३ ॥ ६७३ ॥
सवभवेसु अस्साया, वेयणा वेइया मए । निमिसंतरमित्तंपि, ज साया नत्थि वेयणा ॥ ६७४ ॥ | न केवलं नरक एव दुःखवेदना अनुभूताः, किंतु सर्वास्वपि गतिष्वित्येतदाह-सर्वभवेषु-सर्वास्वपि गतिषु, असाता-दुःखरूपा
वेदना वेदिता मया, निमेषः-अक्षिनिमीलनं तस्यान्तरं-व्यवधानं, यावता कालेनासौ भूत्वा पुनर्भवति, तावन्मात्रमपि | तत्परिमाणमपि कालमिति शेषः, यत्-यस्मात्साता-सुखरूपा-नास्ति वेदना तत्त्वतो वैषयिकसुखस्यापीाद्यनेकदुःखानुविद्धत्वेन विपाकदारुणत्वेन वा दुःखरूपत्वात् , सर्वस्य वास्य प्रकरणस्यायमाशयो-येन मयैवं नरकेऽपि दुःखान्यनुभूतानि निमेषमात्रमपि कालं सुखं न लब्धं सोऽहं कथं तत्त्वतः सुखोचितः सुकुमारो वेति शक्यते वक्तुं ?, कथं वा तस्य मम महाव्रतपालनं क्षुदादि| सहनं वा बाधाविधायि, तत्त्वतस्तस्य परमानन्दहेतुत्वात् , ततः प्रव्रज्यैव मया ग्राह्या ॥ ७४ ॥ ६७४ ॥
तं बितऽम्मापियरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥ ६७५ ॥ तस्मिन्नेवमुक्त्वोपरते तं मृगापुत्रं ब्रूतः-अम्बापितरौ, छन्दसा-अभिप्रायेण स्वकीयेनेति गम्यते, पुत्र ! प्रव्रज-यथाभिरुचितं |
सर्वभवेषु असाता
BXXXXXXX
X॥१५५॥
Jain Education
et
For Privale & Personal use only
Mainelibrary.org