________________
उत्तरा० २६
वालुयाकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥ ६३७ ।। वालुकाव इव निरास्वादो - नीरसो, विषयगृद्धानां वैरस्यहेतुत्वात् ॥ ३७ ॥ ६३७ ॥
अही वेगं तदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेयवा सुदुक्करं ।। ६३८ ॥ अहिरिवैकान्तो- निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया अनन्याक्षिप्तया, अहिपक्षे दृशा, अन्यत्र बुद्ध्योपलक्षितं एकान्तदृष्टिकं वा चरित्रं दुश्वरं विषयेभ्यो मनसो दुर्निवारत्वात्, चैवत्ति एवकारस्योपमार्थत्वाद्यवा लोहमया इव चयितव्याः, कोऽर्थो ?, लोहमययवचर्वणवत्सुदुष्करं चारित्रम् ॥ ३८ ॥ ६३८ ॥
जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे तारुण्णे समणत्तणं ॥ ३३९ ॥ सुब्व्यत्ययात् यथा अग्निशिखां-अग्निज्वालां, दीप्तां उज्वलां करालां वा पातुं सुदुष्करं नृभिरिति गम्यं, यद्वा लिङ्गव्यत्ययात्सर्वधात्वर्थात्करोतेः सुदुष्करा - सुदुश्शका यथा अग्निशिखा दीप्ता पातुं भवतीति योगः, जे इति निपातः सर्वत्र पूरणे ।। ३९ ।। ६३९ ।
Jain Educationtional
जहा दुक्खं भरे जे, होइ वायस्स कुत्थलो । तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥ ६४० ॥ कुत्थल इह वस्त्रकम्बलादिमयो गृह्यते, चर्ममयो हि सुखेनैव वियेतेति क्लीबेन - निस्सत्वेन ॥ ४० ॥ ६४० ॥
जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी। तहा णिहुअणीसंकं, दुक्करं समणत्तणं ॥ ६४१ ॥ निभृतं निश्चलं- विषयाभिलाषादिभिरक्षोभ्यं निश्शङ्कं - शरीरादिनिरपेक्षं, शङ्काकाङ्क्षादि सम्यक्त्वातिचाररहितं वा ॥४१॥६४१ ॥
For Private & Personal Use Only
पित्रोः श्रामण्ये
दुष्करताsभिधानम्
ainelibrary.org