________________
उत्तरा० अवचूर्णिः
मृगापुत्रीयाख्यमध्ययनम्
॥१५
॥
EXOXOXOXXXXXXXXXX
उपसंहारमाहसुहोइओ तुमं पुत्ता !, सुकुमालो सुमजिओ । न हुसी पभू तुमं पुत्ता, सामन्नमणुपालिया ॥ ६३४ ॥ सुखोचितः-सुखयोग्यः त्वं पुत्र! सुकुमार:-अकठिनदेहः सुमज्जितः-सुष्ठुस्नपितः, सुष्टुनेपथ्योपलक्षणं चैतत् , इह च सुमजि. तत्वं सुकुमारत्वे हेतुः उभयं चैतत्सुखोचितत्वे, होरेवार्थत्वान्नैव असि-भवसि प्रभुः-समर्थः श्रामण्यमनुपालयितुं, इह सुखोचितत्वाभिधानमनीदृशो हि ईदृशं दुष्करमपि न दुष्करं मन्यत इति ॥ ३४ ॥ ६३४ ॥
पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह___ जावजीवमविस्सामो, गुणाणं तु महन्भरो । गुरुओ लोहभारु व, जो पुत्ता ! होइ दुवहो ॥ ६३५ ॥
अविश्रामो यत्रोद्धृते न विश्राम्यते, गुणानां-यतिगुणानां तुः-पूरणे महाभारो-महासमूहः, गुरुको लोहमार इव यो दुर्वहः. | स वोढव्य इति शेषः, त्वं तु सुखोचित इत्यतो न प्रभुरसीत्युत्तरत्रापि योज्यम् ॥ ३५ ॥ ६३५ ॥
आगासे गंगसोउ छ, पडिसोउब दुत्तरो। बाहाहिं सागरो चेव, तरियो य गुणोयही ॥ ६३६ ॥ __ आकाशे गङ्गाश्रोतोवत् दुस्तर इति योज्य, लोकरूढ्या चैतदुक्तं, तथा प्रतिश्रोतोवत् यथा प्रतीतं जलप्रवाहो दुस्तरो दुःखेन । तीर्यत इति, बाहुभ्यां सागरवच्च दुस्तरो यः स तरितव्यः-पारगमनाय अवगाहयितव्यः, कोऽसौ ?, गुणाः-ज्ञानादयस्ते उदधिरिख गुणोदधिः, कायवाड्मनोनियन्त्रणा दुष्करत्वे हेतुः ॥ ३६॥ ६३६ ॥
XOXOXOXOXOXOXOXOXOKeXO7
पित्रोः
श्रामण्ये दुष्करताऽभिधानम्
॥१५॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org