________________
KeXOXOXOXOXOXOXOXOXOXOXOXO
चउच्चीहेऽवि आहारे, राईभोयणवत्रणा । संनिहीसंचओ चेव, वजेयत्वो सुदुकरं ॥ ६३०॥ सन्निधीयते नरकादिष्वनेनात्मा इति सन्निधिः-घृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च सन्निधिसञ्चयश्च स एव वर्जयितव्य इत्येतत्सुदुष्कर, अनेन षष्ठव्रतदुष्करत्वमुक्तम् ॥ ३० ॥ ६३० ॥
छुहा तण्हा य सीउण्हं, दंसमसगा य वेयणा । अक्कोसा दुक्खसिजा य, तणफासा जल्लंमेव य ॥ ६३१॥
छहेत्यादिना परीपहाभिधानं, अत्र च दंशमशकवेदना-तद्भक्षणोत्थदुःखरूपा, दुःखशय्या च-विषमोन्नतत्वादिना दुःख| हेतुर्वसतिः॥ ३१ ॥ ६३१ ।।
तालणा तजणा चेव, वहबंधपरीसहा। दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ६३२॥ ताडना-करादिभिर्हननं, तर्जना-अङ्गुलिभ्रूभ्रमणादिरूपा, वधश्च-लकुटादिप्रहारः बन्धश्च-मयूरबन्धादिः तावेव परीषही, याच्ञा, च अनुक्ताशेषपरीषहसमुच्चयार्थः, दुःखशब्दश्चेह क्षुद्दुःखमित्यादिषु प्रत्येकं योज्यः, इह च बन्धताडने वधपरीषहे अन्तर्भवतः, तर्जनाऽऽक्रोशे, भिक्षाचर्या च याच्ञायां, भेदोपादानं व्युत्पत्त्यर्थमिति ॥ ३२ ॥ ६३२॥
कावोया जा इमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभवयं घोरं, धारेउं अमहप्पणो ॥ ६३३ ॥ X कपोतपक्षिणामियं-कापोती येयं वृत्तिः-निर्वाहणोपायः, यथा हि ते शङ्किताः कणकीटादिग्रहणे प्रवर्तन्ते, एवं भिक्षुरप्येष
णादोषचंक्येव भिक्षादौ प्रवर्त्तते, सा च दुरनुचरत्वेन दारयति-कातरमनांसीति दारुणेत्युत्तरेण योगः, अर्थवशाच्च लिङ्गपरिणामः, उपलक्षणं चैतत् सर्वोत्तरगुणानामिति, यच्चेह ब्रह्मव्रतस्य पुनर्दुर्द्धरत्वाभिधानं, तदस्यातिदुष्करत्वख्यापनार्थम् ॥ ३३॥ ६३३ ॥
पित्रोः श्रामण्ये
ऽभिधानम्
XOXOXO
no
For Private & Personal use only