________________
Jain Education
FOXXX-X
यतश्चैवमतः
असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुयसन्निभे ।। ६१३ ॥ अशाश्वतशरीरे रतिं-चित्तस्वास्थ्यं नोपलभे-न प्राप्नोम्यहं, भोगेषु सत्सु अपीति गम्यं, पश्चाद्-भुक्तभोगतावस्थायां वार्द्धक्यादौ पुरा वा-अभुक्तभोगतायां बाल्यादौ त्यक्तव्ये - अवश्यत्याज्ये, फेनबुद्बुदसन्निभे क्षणदृष्टनष्टतया ॥ १३ ॥ ६१३ ॥
एवं भोगनिमन्त्रणापरिहारमुक्त्वा प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह
माणुसत्ते असारंमि, वाहीरोगाण आलए । जरामरणघत्थंमि, खर्णपि न रमामहं ।। ६१४ ॥
गाथा ४ स्पष्टा एव, नवरं व्याधयः - अतीव दुःखहेतवः कुष्ठादयः रोगाः - ज्वरादयः तेषामालये-आश्रये, जरामरणग्रस्ते, क्षणमपि न रमे - नाभिरतिं लभेयम् ॥ १४ ॥ ६१४ ॥
इत्थं नरभवस्य निर्वेदहेतुत्वमुक्त्वा अधुना चतुर्गतिकस्यापि संसारस्य तदाह
जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो ॥ ६१५ ।। अहो इति सम्बोधने, दुःखहेतुरेव, यत्र यस्मिन् संसारे-गतिचतुष्टयात्मके क्लिश्यन्ति - बाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यं, जन्तवः ॥ १५ ॥ ६१५ ॥
वित्तं वत्युं हिरणं च पुत्तदारं च बंधवा । चइत्ता ण इमं देहं गंतवमवसस्स मे ॥ ६१६ ॥ तथा, खित्तमित्यादिनेष्टवियोगोऽशरणत्वं च संसारनिर्वेदहेतुरुक्तः ॥ १६ ॥ ६१६ ॥
For Private & Personal Use Only
CXCXXXXXX
मानुष्यत्वे दुःखं खेत्रादेरवश्यगन्त
व्यता
ainelibrary.org