________________
अवचूर्णिः ॥१४७॥
मृगापुत्रीयाख्यमध्ययनम्
भोगस्य
श्रुतानि-आकर्णितानि अन्यजन्मनीत्यभिप्रायः, मे-मया पञ्चमहाव्रतानि, तथा नरकेषु दुःखं, चशब्दस्य गम्यमानत्वात् , तिर्यग्योनिषु च, उपलक्षणात् देवमनुष्यभवयोः, ततः किमित्याह-निवृत्तकामो-निवृत्ताभिलाषः, अस्मि अहं महार्णव इव महार्णवः-संसारस्तस्मात् , यतश्चैवमतोऽनुजानीत-अनुमन्यध्वं, मामिति शेषः, प्रव्रजिष्यामि अम्मोत्ति पूज्यत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच्च मातुरामन्त्रणं, यो हि भाविदुःखं तत्प्रतीकारहेतुं च नावैति स कदाचिदित्थमेवासीत् , अहं तु उभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्ये इति गाथाभावार्थः॥१०॥ ६१०॥
अम्माताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुबंधदुहावहा ॥ ६११ ।। इदानीं तो कदाचित् भोगैस्तं निमन्त्रयेयातामित्यभिप्रायतो भोगनिन्दाद्वारेण संसारनिर्वेदस्य हेतुमाह-अम्मेति गाथाः ३ सुगमा एव, नवरं विषशब्देन विषवृक्षो गृह्यते, तस्य फलं विषफलं तदुपमाः, तदुपमत्वमेव भावयति-पश्चात् कटुक इव कटुकोऽनिष्टत्वेन विपाको येषां ते कटुकविपाकाः, आपात एव मधुरा इत्यर्थः, अनुबन्धदुःखावहा-अनवच्छिन्नदुःखदायिनः, यथा हि | विषफलमास्वाद्यमानमादौ मधुरमायतौ तु कटुकविपाकं सातत्येन दुःखोपनेतृ एवमेतेऽपीति भावः॥ ११॥ ६११॥
इमं सरीरं अणिचं, असुइं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ।। ६१२॥ किं च-अमी कामाः शरीरभोज्यास्तच्चेदं शरीरमनित्यं, अशुचि-स्वाभाविकशुचिरहितं, अशुचिसम्भवं-अशुचिरूपशुक्रशोणिHIतोत्पन्नं, कथञ्चिदवस्थितत्वेऽपि अशाश्वत:-अनित्यः आवास:-प्रक्रमात जीवस्यावस्थानं यस्मिंस्तदशाश्वतावास, पुनरिदमित्य
भिधानमतीवासारसूचकं, दुःखहेतवो ये क्केशा-ज्वरादयो रोगास्तेषां भाजनं-स्थानम् ॥ १२॥ ६१२ ॥
कटुकविपाकत्वं शरीरस्याशाश्वतत्वं च
१४७॥
Jain Education Electional
For Privale & Personal use only
Poinejainelibrary.org