________________
XXXXXXXXXXXXX
धारयतीति तपोनियमसंयमधरस्तं तथा, अत एव शीलं अष्टादशशीलाङ्गसहस्ररूपं तेनाढ्यं-परिपूर्ण शीलाढ्यं, अत एव गुणानांज्ञानादीनामाकर इवाकरो गुणाकरस्तम् ॥ ५॥ ६०५॥ तं श्रमणसंयतं पश्यति मृगापुत्रो युवराजः, दृष्ट्या-दशा, तोरेवार्थत्वादनिमेषयैव-अविद्यमाननिमेषयैव, क्व मन्ये-जाने ईदृशमेवंविधं रूपं-आकारः, दृष्टपूर्व-पूर्वमप्यवलोकितं, मया पुरेति-पूर्व| जन्मनि ॥ ६॥ ६०६ ॥ तस्य मृगापुत्रस्य अध्यवसाने चित्तपरिणामे शोभने-प्रधाने क्षायोपशमिकभाववर्तिनि इत्यर्थः, मोहंक्वेदं मया दृष्टपूर्वमित्यतिचिन्तातश्चित्तसङ्घट्टजमूर्छात्मकं गतस्य-प्राप्तस्य सतः ॥७॥६०७ ॥ संज्ञिज्ञानं चेह सम्यग्दशः, स्मृतिरूपमतिभेदात्मक तस्मिन् समुत्पन्ने सति ॥प्र०२॥ तथा पूर्वार्द्ध स्पष्टं, स्मरति पौराणिकी जाति-जन्म, श्रामण्य-श्रमणभावं पुराकृतं-जन्मान्तरानुष्ठितम् ॥८॥६०८॥ ___सम्प्रति यदसौ उत्पन्नजातिस्मरणः कृतवांस्तदाह
विसएसु(हिं प्र०) अरजंतो, रजंतो संजमंमि य । अम्मापियरं उवागम्म, इमं वयणमब्बवी ॥ ६०९॥ सुप्व्यत्ययात् विषयेषु-मनोज्ञशब्दादिषु अरज्यन्-अभिष्वङ्गमकुर्वन् , रज्यन्-रागं कुर्वन् , क ?, संयमे-चरित्रे, चः-पुनरर्थे, अम्बापितरावुपागम्य-उपसृत्य-इदं वक्ष्यमाणं वचनमब्रवीत्-उक्तवान् ॥ ९॥ ६०९॥ किं तदब्रवीदित्याह
सुआणि मे पंच महत्वयाणि, नरएस दुक्खं च तिरिक्खजोणिसु । निविण्णकामो मि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो ! ॥ ६१०॥
जातजाति| स्मरणे x
बैराग्य महाव्रतेच्यान
SainEducation.international
For Privale & Personal use only