________________
Jain Education Insteadin
॥ अथ एकोनविंशं मृगापुत्रीयाख्यमध्ययनम् ॥
अनन्तराध्ययने भोगर्द्धित्याग उक्तः, तस्माच्च श्रामण्यमुपजायते, तच्चाप्रतिकर्मतया प्रशस्यतरं स्यादित्यत्र सोच्यते (०४८ ) - सुगवे नयरे रम्मे, काणणुजाणसोहिए। राया बलभहुत्ति, मिया तस्सग्गमाहिसी ॥ ६०१ ॥ अस्य मृगापुत्रीयं नाम, सुग्रीवनाम्नि नगरे रमणीये काननैः - बृहद्वृक्षाश्रयैर्वनैः - उद्यानैः क्रीडावनैः - आरामैः शोभिते, राजा बलभद्रनाम्नेति शेषः, मृगानाम्नी तस्य राज्ञोऽग्रमहिषी - प्रधानपती ॥ १ ॥ ६०१ ॥
तेसिं पुत्ते बलसिरी, मियापुत्तत्ति विस्सुए । अम्मापिऊहिं दहए, जुवराया दमीसरे ।। ६०२ ॥ तयो राज्ञोः पुत्रः बलश्रीः मातापितृकृतनाम्ना लोके च मृगापुत्र इति विश्रुतः, अम्बापित्रोः दयितो - वल्लभः, युवराजः - कृतयौवराज्याभिषेकः, दमिनः - उद्धतदमनशीलास्ते च राजानस्तेषां ईश्वरः प्रभुः दमिनां - उपशमिनां वा ईश्वरो भाविकालापेक्ष चैतत् ॥ २ ॥ ६०२ ॥
नंद सो उपासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निचं मुझ्यमाणसो ॥। ६०३ ॥
नन्दने - लक्षणोपेततया समृद्धिजनके स मृगापुत्रः, तुः - वाक्यान्तरार्थोपन्यासे, प्रासादे क्रीडति - विलसति, सह-सम स्त्रीभिः चः- पूरणे, दोगुन्दक इव, दोगुन्दकाश्च त्रयस्त्रिंशाः, तथा च वृद्धः - " त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्ते,” नित्यं - सदा प्रमुदितमानसो - हृष्ट चित्तः ॥। ३ ।। ६०३ ॥
For Private & Personal Use Only
-OXQX-X---X-
मृगापुत्र
स्वरूपम
Inelibrary.org