________________
उत्तरा०
अवचूर्णिः
॥ १४५ ॥
Jain Education In
यतश्चैवमतः-
कहं धीरे अहेऊहिं, अद्दायं ( प्र० आदायं, अत्ताणं पा० ) परियावसे ( सि पा० ) । सङ्घसंगविणिम्मुको, सिद्धे भवइ नीरए || ६०० ॥ तिबेमि ॥
संजइ ॥ १८ ॥
कथं धीरोऽहेतुभिरात्मानं पर्यावासयेत् ? कथमात्मानमहेत्वाधारं कुर्यात् ? नैव कुर्यादित्यर्थः, किं पुनरित्थमकरणे फलमित्याह - सर्वे - निश्शेषाः सञ्जन्ति-कर्मणा सम्बन्ध्यन्ते जन्तव एभिरिति संयोगा द्रव्यतो द्रविणादयो भावतस्तु मिथ्यात्वरूपत्वात्, एत एव क्रियादिवादास्तैर्विनिर्मुक्तो - विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजाः, अनेनाहेतु परिहारस्य सम्यग्ज्ञानहेतुत्वेन सिद्धत्वं फलमुक्तं, इत्थं तमनुशास्य गतो विवक्षितं स्थानं क्षत्रियः, शेषसञ्जयवक्तव्यतां त्वाह नियुक्तिकृत्"काऊण तवच्चरणं बहूणि वासाणि तो धुअकिलेसो । तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥ १ ॥” स्पष्टा, नवरं धुता-अपनीताः क्लेशा :- रोगादयो येन स यत्स्थानं प्राप्ता न शोचंते, शोकहेतुशारीरमानसदुःखाभावात्, मोक्षमित्यर्थः ॥ ५४ ॥ ६०० ॥ इति सञ्जययाध्ययनावचूरिः ॥
पनि नदिन
॥ इति श्रीउत्तराध्ययने अष्टादशस्य सञ्जययाध्ययनस्य अवचूरिः समाप्ता ॥
For Private & Personal Use Only
XXXX-OX
संयतीया.
ख्यमष्टा
दशम
ध्ययनम्
१८
सङ्गत्या
गान्मुक्तिः
॥ १४५
www.jainelibrary.org