________________
ज्ञानपूर्वक
इत्थं महापुरुषोदाहरणैर्ज्ञानपूर्वकक्रियामाहात्म्यमुक्त्वोपदेष्टुमाह
कहं धीरो अहेऊहिं, उम्मत्तो छ महिं चरे? । एए विसेसमादाय, सूरा दढपरक्कमा ॥५९८ ॥ कथं-केन प्रकारेण धीरः, अहेतुकः-क्रियावाद्यादिपरिकल्पितकुहेतुभिः उन्मत्त इव-ग्रहगृहीत इव तात्त्विकवस्त्वपलपनेनालजालभाषितया महीं-पृथ्वी चरेत्-भ्रामेत् !, नैव चरेदित्यर्थः, किमिति ?, यतः एते अनन्तरोक्ता भरतादयः, विशेष-विशिष्टतां गम्यत्वान्मिथ्यादर्शनेभ्यो जिनशासनस्य आदाय-गृहीत्वा मनसि सम्प्रधाउँति यावत् शूरा दृढपराक्रमाः, एतदेवाश्रितवन्त इति शेषः, कोऽर्थो ?-यथेति महात्मानो मिथ्यादर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा त्वयापि धीरेण सता विशेषज्ञेनास्मिन्नेव निश्चितं चेतो विधेयमिति ॥५२॥ ५९८॥
किंचअचंतनियाणखमा, एसा (सबा पा०) मे भासिया वई। अतरिंसु तरितेगे(ण्णे पा०), तरिस्संति अणागया ॥ ५९९ ॥ | अत्यन्तं-अतिशयेन निदानैः-कारणैर्हेतुभिरित्यर्थो, न तु परप्रत्ययेनैव, क्षमा युक्ता अत्यन्तनिदानक्षमा, यद्वा निदानंकर्ममलशोधनं तस्मिन् क्षमा-समर्थाः "दैवं शोधने' इत्यस्य निदानशब्दसिद्धिः, सत्या मे मया भाषिता वाग् जिनशासनमेवा
श्रयणीयमेवंरूपा, अनया अङ्गीकृतया अतीर्घः-तीर्णवन्तः, तरन्त्येके परे सम्प्रत्यपि, तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमउत्तरा०२५
II भिधानं, तथा तरिष्यन्ति अनागता-भाविनः, भवोदधिमिति सर्वत्र शेषः॥५३॥ ५९९ ॥
क्रियाया माहात्म्यम्
Jain Educati
o nal
For Privale & Personal use only
Riralaujainelibrary.org