SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ *-*-*-* पुनरुपदेष्टुमाह किरिच रोज धीरो, अकिरियं परिवज्जए । दिट्टिए दिट्टिसंपन्नो, धम्मं चरसु दुच्चरं ॥ ५८० ॥ क्रियां च - अस्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेत् यथाऽसौ स्वस्मै रोचते तथा कुर्यात्, धीरो मिथ्यादृग्भिरक्षोभ्यः, तथा अक्रियां-नास्त्यात्मा इत्यादिरूपां मिथ्यादृग्परिकल्पिततत्तदनुष्ठानरूपां वा परिवर्जयेत्, ततश्च दृष्ट्या - सम्यग् दर्शनात्मिकया हेतुभूतया दृष्टिः- बुद्धिः सा चेह- सम्यग्ज्ञानात्मिका तया सम्पन्नो युक्तः, एवं च सम्यग्दर्शनज्ञानान्वितः सन् धर्म-यतिधर्म चर - सेवस्व, सुदुश्वरः - अत्यन्त दुरनुष्ठेयम् ॥ ३३ ॥ ५८० ॥ पुनः क्षत्रियमुनिरेव संजय मुनिमहापुरुषोदाहरणैः स्थिरीकर्त्तुमाह एयं पुण्ण (प्र० ण) पयं सुच्चा, अत्थ धम्मोवसोहियं । भरहोऽवि भारहं वासं, चिच्चा कामाई पछए ॥ ५८१ ॥ सगरोsवि सागरतं, भरहवासं नराहियो । इस्सरियं केवलं हिचा, दयाए परिनिब्बुडो || ५८२ | एतदनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच्च तत्पद्यते गम्यते, अर्थोऽनेनेति पदं च पुण्यपदं पुण्यस्य वा पदं स्थानं पुण्यपदं| क्रियादिवादिस्वरूपं नानारुचिपरिवर्जनाद्यावेदकं शब्दसंदर्भ श्रुत्वा अर्थः- अर्यमानया स्वर्गमोक्षादिः धर्मः - तदुपायभूतः श्रुतधर्मादिस्ताभ्यां उपशोभितं विभूषितं अर्थधर्मोपशोभितं, भरतनामा चक्री, अपिशब्द उत्तरापेक्षया समुच्चये, प्राकृतत्वात् भरतं वर्षक्षेत्रं त्यक्त्वा, चस्य गम्यत्वात् कामांश्च प्राकृतत्वात् नपुंसकत्वं, प्रात्राजीत्, तथा हि अयोध्यापुर्यां भरतनामा चक्री, Jain Education leonal For Private & Personal Use Only *OXXXOXXX XOX xoxoxox धर्मकरण उपदेशो महापुरुषोदाहर णानि च ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy