________________
उत्तरा० अवचूर्णिः
O:-XO
संयतीयाख्यमष्टादशमध्ययनम् १८
॥१४१॥
अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्यामुनाऽभिप्रायेण यः संयम प्रत्युत्थानवान् , सः अहो विस्मये उत्थितो-धर्म प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः सम्भवति, अहोरात्रं-अहर्निशं, इति-एतदनन्तरोक्तं विद्वान्-जानन् , 'सावधारणत्वात् वाक्यस्य' तप एव, न तु प्रश्नादि, चरेः-आसेवस्व ॥ ३१॥ ५७८ ॥
पुनस्तत्स्थिरीकरणार्थमाहजं च मे पुच्छसी काले, सम्मं सु(प्र० बुद्धेण)चेयसा। ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥ ५७९॥ यच्च मां पृच्छसि-प्रश्नयसि, काले प्रस्तावे, सम्यगशुद्धेन-अविपरीतबोधवता, चेतसा-चित्तेन उपलक्षितः सूत्रत्वात् , प्रादुप्करोमि-प्रकटीकरोमि, बुद्धः-अवगततत्त्वः सन् , कुतः पुनर्बुद्धोऽसि ?, अतः आह-तदिति यत्किञ्चिदिह जगति प्रचरति ज्ञान-यथाविधवस्त्ववबोधरूपं तजिनशासने, अस्तीति गम्यते, ततोऽहं तत्र स्थित इति तत्प्रसादात् बुद्धोऽस्मीत्यभिप्रायः, अतः पृच्छ यथेच्छं, यद्वा अप्पणो अपरेसियेत्यादिना तस्यायुर्विज्ञानं ज्ञात्वा संजयमुनिनोक्तं, कथं त्वमायुर्जानासीति पृष्टोऽसौ प्राह-यच्च मां पृच्छसि काले-कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः, तत्प्रादुष्कृतवान् , बुद्धः-सर्वज्ञः, अत एव तज्ज्ञानं 'सावधारणत्वात् वाक्यस्य' जिनशासने एव, न त्वन्यस्मिन् सुगतादिशासने, अतो जिनशासन एव यत्नो विधेयो येन यथाऽहं जानामि तथा त्वमपि जानीपे इति भावः, इह पूर्वोक्तश्चायुर्विज्ञानविषयः प्रश्नः संजयकृतोऽस्मादेव प्रतिवचनात् लक्ष्यते इति ॥ ३२ ॥ ५७९ ॥
*6X9XXXXXX NOKeXXXX
जिनशासन ज्ञानम्
१५१॥
TXOXOK
Jain Education
For Privale & Personal use only
library