SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Jain Education *80X9X9 भवं - जन्म आगतः, इत्थमात्मनो जातिस्मृतिलक्षणमतिशयमाख्यायातिशयान्तरमाह - आत्मनश्च परेषां चायुः जीवितं जाने, यथा येन प्रकारेण स्थितिमिति, गम्यं, तथा - तेनैव प्रकारेण, न त्वन्यथेत्यभिप्रायः ।। २८-२९ ॥ ५७५-५७६ ॥ इत्थं प्रसङ्गतः परितोषतश्चापृष्टमपि स्ववृत्तान्तमावेद्योपदेष्टुमाह नाणा रुई च छंदं च परिवज्जिज्ज संजओ । अणट्ठा जे अ सवत्था, इइ विजामणुसंचरे ॥ ५७७ ॥ अनेकधा रुचिं च- प्रक्रमात्क्रियावाद्यादिमत विषयमभिलाषं, छन्दश्च - स्वमतिकल्पिताभिप्रायं, इहापि नानेतियोगादनेकविधं, परिवर्जयेत् परित्यजेत् संयतो- यतिः, तथा अनर्थाः - अनर्थहेतवो ये च सर्वार्था - अशेषहिंसादयो, गम्यमानत्वात् तान् वर्जयेदिति सम्बन्धः, यद्वा सवत्था इत्याकारस्यालाक्षणित्वात् सर्वत्र क्षेत्रादौ अनर्था इति-निष्प्रयोजना ये च, व्य इति गम्यते, तान् परिवर्जयेत्, इत्येवंरूपां विद्यां - सम्यग्ज्ञानरूपां, अन्विति - लक्षीकृत्य सञ्चरेः-त्वं सम्यक्संयमाध्वनि यायाः ॥ ३० ॥ ५७७ ॥ अन्यच्च पक्किमामि पसिणाणं, परमंतेहिं वा पुणो । अहो उट्ठओ अहोरायं, इह विज्जा तवं चरे ॥ ५७८ ॥ प्रतीपं क्रमामि प्रतिक्रमामि - प्रतिनिवर्त्ते, केभ्यः १, सुब्व्यत्ययात्प्रश्नेभ्यः - शुभाशुभसूचकाङ्गुष्ठप्रश्नादिभ्योऽन्येभ्यो वा साधिकरणेभ्यः, परे -गृहस्थास्तेषां मन्त्राः तत्कार्यालोचनरूपाः परमन्त्रास्तेभ्यः, प्रतिक्रमामीति योगः चः समुच्चये, पुनर्विशेषणे, onal For Private & Personal Use Only ••••••••••••• संयमतपसोरुपदेश: ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy