________________
उत्तरा० अवचूर्णिः
संयतीयाख्यामष्टादशनध्ययनम्
॥१४
॥
१८
सर्वे ते क्रियादिवादिनः विदिता-ज्ञाता मम यथाऽमी मिथ्या-विपरीता परलोकात्माद्यपलापित्वेन दृष्टि:-बुद्धिरेषामिति मिथ्यादृष्ट्यः, अत एवानार्याः-अनार्यकर्मप्रवृत्ताः, कथं पुनस्ते एवंविधास्तव विदिता इत्याह-विद्यमाने सति परलोके-अन्यजन्मनि सम्यग्-अविपरीतं जानामि-अवगच्छामि, आत्मानं, ततः परलोकात्मनोः सम्यग्वेदनान्ममैवंविधत्वेन विदिताः, ततोऽहं तदुक्त्याकर्णनादितः संयच्छामीति ॥ २७ ॥ ५७४॥ ___ कथं पुनस्त्वमात्मानमन्यजन्मनि जानासीत्याह
अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिवा वरिससओवमा ॥ ५७५ ॥ से चुए बंभलोगाओ, माणुस्सं भवमागए । अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥ ५७६ ॥
अहेति गाथाद्वयं, अहं अभूवं महाप्राणाख्ये ब्रह्मलोकविमाने द्युतिमान-दीप्तिमान् वर्षशतजीविना उपमा-दृष्टान्तो यस्या|सौ वर्षशतोपमो, मयूरव्यंसकादित्वान्मध्यपदलोपी समासः, कोऽर्थो-यथेह वर्षशतजीवी इदानी परिपूर्णायुरुच्यते, तथा | अहमपि तत्र परिपूर्णायुरभूवं, तथा हि-या सा पालिरिव पालिः-जीवितजलधारणाद्भवस्थितिः, सा चाग्रे महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली-सागरोपमप्रमाणा दिविभवा दिव्या, वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, यथा हि-वर्षशतमिह परमायुस्तथा तत्र महापाली, यद्वा वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्याः सा वर्षशतोपमा द्विविधापि स्थितिः, सागरोपमस्यापि पल्योपमनिष्पाद्यत्वात् , तत्र मम महापाली दिव्या भवस्थितिः आसीदित्युपस्कारः, अतश्चाहं वर्षशतोपमायुरभूवमिति भावः, से-अथ स्थितिपरिपालनानंतरं च्युतो ब्रह्मलोकात् पञ्चमकल्पात् मानुष्यं-मनुष्यसम्बन्धिनं
स्वपरजन्मनि ज्ञानम्
OXXoxoxoxoxoxoXXX
॥१४॥
Jain Ede
For Privale & Personal use only