________________
KeKEKXO
तेषां च फलमाह
पडं ति नरए घोरे, जे नरा पावकारिणो । दिवं च गई गच्छंति, चरित्ता धम्ममारियं ॥५७२॥ पतन्ति-गच्छन्ति नरके-सीमन्तकादौ घोरे-रौद्रे ये नरा उपलक्षणत्वात् स्यादयश्च पापं इह प्रस्तावादसत्प्ररूपणैव तत्कर्तुं * शीलं-स्वभावो येषां ते पापकारिणः, ये त्वेवंविधा न स्युः ते किमित्याह, चः-पुनरर्थे, स च पूर्वेभ्यो विशेषद्योती, ततो दिव्यां
पुनर्गतिं गच्छन्ति, चरित्वा-आसेव्य धर्म-इह प्रस्तावात् सत्प्ररूपणारूपं श्रुतधर्ममेव आर्य, अयमाशयः-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव भाव्यं भवतेति ॥ २५ ॥ ५७२ ॥
कथं पुनरमी पापकारिण इत्याह
मायावुइयमेयं तु, मुसा भासा निरत्थिया। संजममाणोऽवि अहं, वसामि इरियामि य ॥५७३॥ ___ मायया-शाट्येनोक्तं मायोक्तमेव, एतद्-यदनन्तरं क्रियादिवादिभिरुक्तं, तुरेवार्थः, प्राग्योजितः, अतश्चैतन्मृषाभाषा-अलीकोक्तिः, निरर्थिका-सम्यगभिधेयशून्या, तत एव चापेरेवार्थत्वात्संयच्छन्नेव-उपरमन्नेव तदुक्त्याकर्णनादितः, अहमित्यात्मनिर्देरो विशेषतस्तस्थिरीकरणार्थ, उक्तं हि-"ठिओ ठावए परं"ति, वसामि-तिष्ठामि, उपाश्रये इति शेषः, ईरे च-गच्छामि च गोचरचयादिषु ॥ २६॥ ५७३॥
कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः संयच्छसीत्याहसवे ते विइया मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ ५७४ ।।
पापान्नरकं धर्मात् स्वर्ग
XOXOXOXO
Jain Education
For Privale & Personal use only
ainelibrary.org