SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥१३९॥ संयतीयाख्यमष्टादशमध्ययनम् तत्त्वानवगमः, चः समुच्चये, महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानैर्मिथ्यात्वाध्यवसायाधारभूतैर्मेयं-ज्ञेयं जीवादिवस्तु तद् | जानंतीति मेयज्ञाः, क्रियादिभिश्चतुर्भिः स्थानैः स्वस्वाभिप्रायकल्पितर्वस्तुतत्त्वपरिच्छेदिन इत्यर्थः, किमिति कुत्सितं प्रकर्षण भाषन्ते प्रभाषन्ते, विचाराक्षमत्वात् , आत्मास्तित्वविभुत्वाद्येकान्तवादस्य युक्तिवाधितत्वात् , आत्मादिनास्तित्ववादस्य प्रत्यक्षादिप्रमाणबाधितत्वात् , ज्ञानध्यानानुष्ठानादिगुणरहिताश्रवादिदोषदृषितसुरासुरनृपयतिकरितुरगहरिणजलचरखेचरस्थलचरादिसर्वजीवविनयस्य श्रेयोहेतुत्वाभावात् , ज्ञानस्य मुक्तिं प्रत्यनुपयोगित्वात्तपः कष्टादेव सिद्धिरितिवादस्य ज्ञानमन्तरेण तपोऽपवर्गादीनामपि स्वरूपापरिज्ञानतः क्वचित्प्रवृत्त्यसम्भवात् विधिविरहितस्य महतोऽपि कष्टस्य तियग्नरकादीनामिवापवर्ग प्रत्यहेतृत्वाच्च कुत्सितभाषकत्वमिति भावः ॥ २३ ॥ ५७० ॥ न चैतत्स्वाभिप्रायेणैवोच्यते इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विजाचरणसंपन्ने, सच्चे सच्चपरकमे ॥ ५७१॥ किंतु इति-एतक्रियावादिनः किं प्रभाषन्ते इत्येवं रूपं प्रादुरकार्षीत्-प्रकटितवान् , बुद्धं अवराततत्त्वः सन् ज्ञातको जगत्प्र| तीतः, क्षत्रियो वा, स चेह प्रस्तावान्महावीर एव, परिनिर्वृतः कषायानलविध्यापनासमन्ताच्छीतीभूतः, विद्याचरणाभ्यां प्रक्रमात् क्षायिकाभ्यां सम्पन्नो-युक्तः, अत एव सत्यः-सत्यवार, सत्यस्तात्त्विकत्वेन परेषां-भावारीणां आक्रमः-अभिभवो यस्यासौ सत्यपराक्रमः॥ २४ ॥ ५७१॥ GXOXOXO-KO-KO-XSXOXOXOXOXOXoka क्रियादिचतुःस्थानविषये राज्ञः प्रश्राः ॥१३९॥ JainEducation For Private & Personal use only ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy