________________
उत्तरा० २४
यथा
किंनामे किंगुत्ते कस्साए व माहणे ? | कहं पडियरसी बुद्धे ?, कहं विणीयत्ति वुच्चसि ? ॥ ५६८ ॥ किंनामा, किंगोत्रः–अन्वयः, कस्मै वार्थाय - प्रयोजनाय मा वधीरित्येवं रूपं मनो वाक्कायक्रिया च यस्यासौ माहनः ?, प्रव्रजित इत्यर्थः, कथं प्रतिचरसि - सेवसे बुद्धान् - आचार्यादीन् ?, कथं विनीतो - विनयवानित्युच्यते १ ॥ २१ ॥ ५६८॥ युग्मं ॥ संजयमुनिराह -
संजओ नाम नामेणं, तहा गुत्तेण गोयमो । गद्दभाली ममायरिया, विज्ञाचरणपारगा ।। ५६९ ।।
संजय नाम नाम्ना, तथा गोत्रेण गौतमः, उभयत्राहमिति गम्यते, अथ शेषप्रश्नत्रयप्रतिवचनमाह-गर्दभालिनामानो मम आचार्या धर्मोपदेशकत्वादिना, विद्या च श्रुतज्ञानं चरणं च चारित्रं विद्याचरणे तयोः पारगाः, एवं च वदतोऽयमाशयोयथा तैर्धर्माचार्यैर्जीवघातान्निवर्त्तितोऽहं विद्याचरणपारगत्वाच्च तैस्तन्निवृत्तौ मुक्तिलक्षणं फलमुक्तं, ततस्तदर्थं माहनोऽस्मि, यथा च तदुपदेशः तथा गुरून् प्रतिचरामि, तदुपदेशसेवनाच्च विनीत इति भावः ॥ २२ ॥ ५६९ ॥
Jain Education tional
इत्थं च विमृश्य तद्गुणबहुमानतोऽपृष्टोऽपि क्षत्रिय इदमाह
किरियं अकिरियं विणयं, अन्नाणं च महामुणी ! । एएहिं चउहिं ठाणेहिं, मेअन्ने किं पभासई ? ॥ ५७० ॥ क्रिया-अस्तीत्येवंरूपा, प्राकृतत्वान्नपुंसकता, अक्रिया - तद्विपरीता, विनयो - नमस्करणादि, लिङ्गव्यत्ययः प्राग्वत्, अज्ञानं
For Private & Personal Use Only
*********०*०
संजयमुने
नमादि
Kinelibrary.org