SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः ॥ १३८ ॥ Jain Education in -oxoxox EXOX अग्रस्थतौरेवार्थत्वाद्भिन्नक्रमत्वाच्च तेनैव नतु धनादिना, संयुक्तः सहितो गच्छति, परं- अन्यं भवं ततः शुभहेतुं तपःपुण्यमेव चरेरिति भावः ॥ १७ ॥ ५६४ ॥ ततस्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याह सोऊण तस्स सो धम्मं, अणगारस्स अंतिए । महया संवेगनिवेयं, समावन्नो नराहिवो ॥ ५६५ ॥ संजओ चइउं रजं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए । ५६६ ।। श्रुत्वा तस्य सञ्जयाख्यो राजा अनगारस्य अन्तिके- समीपे महता आदरेणेति शेषः, सुबूव्यत्ययेन वा महान्तं संवेगं निर्वेदं, तत्र संवेगो - मोक्षाभिलाषो निर्वेदः - संसारोद्विग्नता समापन्नः - प्राप्तो नराधिपः सञ्जयनामा त्यक्त्वा राज्यं निष्क्रान्तः - प्रत्रजितः जिनशासने- अर्हन्मते, गर्दभालिनाम्नो भगवतोऽनगारस्य अन्तिके ॥ १८-१९ ॥ ५६५-५६६ ॥ स एवं गृहीतदीक्षोऽधिगतहेयोपादेयविभागोऽनियतं विहरंस्तथाविधसन्निवेश मागात्, तत्र च तस्य यदभूत्तदाहचिच्चा र पवईओ, खत्तिओ परिभासई । जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥ ५६७ ॥ त्यक्त्वा राष्ट्रं - ग्रामादिसमुदायं प्रत्रजितः - प्रतिपन्नदीक्षः, क्षत्रियजातिरनिर्दिष्टनामा परिभाषते सञ्जयमुनिमिति शेषः, सह पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वा क्षत्रियकुले अजनि, तत्र च कुतश्चित् तथाविधनिमित्ततः स्मृतपूर्वजन्मा तत एव चोत्पन्नवैराग्यः प्रव्रजितो, गृहीतव्रतश्च विहरन् सञ्जयमुनिं दृष्ट्वा तद्विमर्शार्थमिदमित्याह-यथा ते दृश्यते रूपं आकृतिः प्रसन्नंविकाररहितं तव तथा प्रसन्नमिति प्रक्रमः, किं तत् ?, मनः- चित्तं, नहि अन्तःकालुष्ये बहिरेवं प्रसन्नतासम्भवः ॥ २० ॥ ५६७ ॥ For Private & Personal Use Only 。。。Xxx X X X X X X X संयतीया ख्यमष्टा दशम ध्ययनम् १८ सञ्जयस्य निष्क्रमणम् ॥ १३८ ॥ nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy