SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पुत्रादि वित्तायुपभोगत उपजीवन्ति, मृतं चस्याप्यर्थत्वादनुव्रजन्ति अपि न, किं पुनः सह यास्यन्तीति ?, तदनेन दारादीनामपि कृतघ्नतया न तेष्वास्थां कृत्वा धर्मे प्रमाद्यमिति भावः॥ १४ ॥५६१ ॥ पुनस्तत्प्रतिबन्धनिराकरणायाह नीहरंति मयं पुत्ता, पियरं परमदुक्खिया। पियरो अतहा पुत्ते, बंधू रायं! तवं चरे ॥५६२॥ निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता-अतिशयसञ्जातदुःखा अपि, किं पुनर्ये न तथा दुःखमाज इति भावः, पितरोऽपि तथा पुत्रान् , बन्धवश्च बन्धूनिति शेषः, अतो राजन् ! तप उपलक्षणादानादि च चरेः-आसेवस्व ॥ १५ ॥ ५६२॥ अपरं च तओ तेणजिए दवे, दारे य परिरक्खिए। कीलंतऽन्ने नरा रायं !, हतुहमलं किया ॥५६३॥ ततो-मृतनिस्सारणानन्तरं तेन पित्रादिना अर्जिते वित्ते-द्रव्ये, दारेषु च-कलत्रेषु च रक्षितेषु-सर्वोपायपरिपालितेषु, उभयत्रार्षत्वादेकवचनं, क्रीडन्ति-विलसन्ति, तेनैव वित्तेन दारैश्चेति गम्यते, अपरे नराः हृष्टाः-बहिःपुलकादिमन्तः तुष्टाःअन्तरप्रीतिभाजोऽलङ्कृताः, यत ईदृशी भवस्थितिस्ततो राजन् ! तपश्चरेरिति मध्यदीपकत्वात्पूर्वगाथोक्तेन सम्बन्धः ॥१६॥५६॥ मृतस्य का वार्तेत्याह तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो, गच्छई उ परं भवं ॥५६४॥ तेनापि मृतेन यत्कृतं कर्म शुभं वा-पुण्यप्रकृतिरूपं यदि वा-अथवा दुःख-दुःखहेतुः पापप्रकृत्यात्मकमित्यर्थः, कर्मणा *प्रतिबन्ध निराकरणम् Jain Education I o nal For Privale & Personal use only POjainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy