________________
अथेत्यनन्तरं मौनेन-वाग्निरोधेन स गर्दभालिनामा भगवान्-अनगारः ध्यानं धर्मध्यानमाश्रितः स्थितः राजानं न प्रतिमन्त्रयते-न प्रतिवक्ति, यथा-अहं क्षमिष्ये न वेति, ततस्तत्प्रतिवचनाभावतः अवश्यमयं क्रुद्ध इति राजा भयद्रुतो-भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति ॥९॥५५६॥
उक्तवांश्च
संजओ अहमस्सीति, भगवं! वाहिराहि मे। कुद्धे तेएण अणगारे, दहिज्जा नरकोडिओ॥५५७॥ सञ्जयो नाम राजा अहमस्मीति, मा भून्नीचोऽयमिति सुतरां कोप इत्येतदभिधानं, इत्यस्माद्धेतोभगवन् ! ब्याहर-सम्भाषय, सुव्यत्यान्मां, किमेवं भयभीत इत्याह-क्रुद्धः सन् तेजसा-तपोमाहात्म्यजनितेन तेजोलेश्यादिना अनगारो-मुनिदेहेत्भस्मसात्कुर्यात् नरकोटीरपि, अतः अहमत्यन्तभयद्रुतः ॥ १० ॥ ५५७ ॥ इत्थं तेनोक्ते मुनिराह
अभओ पत्थिवा! तुज्झं, अभयदाया भवाहि य ।
अणिच्चे जीवलोगंमि, किं हिंसाए (रजंमि पा०) पसन्जसि? ॥ ५५८ ॥ ___ गाथासप्तकं, अभयं-भयाभावः, पार्थिव-नृप!, आकारोऽलाक्षणिकः, तव, इत्थं समाश्वास्योपदेशमाह-अभयदाताच-प्राणिनां त्राणकर्ता भव, यथाहि-भवतो मृत्युभयं, तथा अन्येषामपीति भावः, च:-प्राग योजितः, अनित्ये जीवलोके, किं प्रश्ने, हिंसायां
*भयद्रुते नृपे
मुनेरभयोपदेशः
Jain Education
For Private & Personal use only
Forjainelibrary.org