________________
उत्तरा०
अवचूर्णिः
॥ १३६ ॥
Jain Education In
****
पुनस्तत्र यदभूत्तदाह
अह आसगओ राया, खिप्यमागम्म सो तहिं । हए मिए उपासित्ता, अणगारं तत्थ पासई ॥ ५५३ ॥ अथानन्तरं अश्वारूढः राजा क्षिप्रं - शीघ्रं आगत्य स सञ्जयाख्यः, तस्मिन् मण्डपे हतान्, तोरेवकारार्थत्वान्मृगानेव, न पुनर्मुनिं दृष्ट्वा अनगारं साधुं तत्रैव स्थाने पश्यति ॥ ६ ॥ ५५३ ॥
ततः किमसौ अकार्षीदित्याह
अह राया तत्थ संभंत, अणगारो मणाऽऽहओ । मए उ मंदपुण्णेणं, रसगिद्वेण घंतुणा ॥ ५५४ ॥ अहेत्यादिगाथाचतुष्कं अथ राजा तत्रेति तद्दर्शने सति सम्भ्रान्तो भयव्याकुलः, यथा अनगारो मनाक् - स्तोकेनैवाहतो - न विनाशितः, तदासन्नमृगहननादित्यर्थः, मया, तुः पूरणे, मन्दपुण्येन रसगृद्धेन घातुकेन- हननशीलेन ॥ ७ ॥ ५५४ ॥
ततश्च
आसं विसज्जइत्ताणं, अणगारस्स सो निवो। विणएणं वंदई पाए, भगवं ! इत्थ मे खमे ॥ ५५५ ॥
अश्वं विसृज्य - विमुच्य णं-वाक्यालङ्कारे, अनगारस्य मुनेः, स नृपो विनयेन वन्दते - स्तौति पादौ चरणौ, वक्ति च यथा भगवन् ! अत्रेति एतस्मिन्मृगवधे मे मम अपराधमिति शेषः क्षमस्व - सहस्व ॥ ८ ॥ ५५५ ॥
ततश्च
अह मोणेण सो भगवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयहुओ ॥ ५५६ ॥
For Private & Personal Use Only
XXX.XX.
संयतीयाख्यमष्टादशम
ध्ययनम् १८
10
अणगारं
दृष्ट्टा क्षामणम्
॥ १३६ ॥
Finelibrary.org