________________
उत्तरा० अवचूर्णिः
पापश्रमणीयमध्ययनम्
१७
युक्तः-अनुपयुक्तः सन् ॥१३॥ तथा सह रजसा वर्तेते सरजस्कौ तादृशौ पादौ यस्य स सरजस्कपादः स्वपिति, कोर्यः ? संयमविराधनां प्रत्यभीरुतया पादावप्रमृज्यैव शेते, तथा शय्यां-वसतिं न प्रतिलेखयति, उपलक्षणत्वात् न प्रमार्जयति, संस्तारकेफलककम्बलादी सुप्त इति शेषः, अनायुक्तः “कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः, शेषं प्राग्वत् ॥१४॥५३९-५४०॥ इदानीं तपआचारातिक्रमतस्तमाह
दुद्धदहीविगईओ, आहारेइ अभिक्खणं । अरए अ तवोकम्मे, पाव० ॥ ५४१॥ दधिदुग्धे प्राकृतत्वात् व्यत्ययो विकृतिहेतुत्वाद्विकृती, उपलक्षणत्वात् घृताद्यशेषविकृतिपरिग्रहः, आहारयति अभीक्ष्णंवारंवारं, तथाविधपुष्टालम्बनं विनापि इति भावः, अत एवारतश्च-अप्रीतिमांश्च तपःकर्मणि-अनशनादौ ॥ १५॥ ५४१॥ अपि च
अत्यंतंमि य सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पाव०॥५४२॥ अस्तान्ते, चः पूरणे, उदयादारभ्येति गम्यते, सूर्ये-आदित्ये आहारयति, अभीक्ष्णं-वारं वारं, तथाविधपुष्टालम्बनं विनापीत्यर्थः, कोऽर्थः ? प्रातरारभ्य सन्ध्यां यावत्पुनः पुनर्भुङ्के, यद्वा अस्तं अयति सूर्ये आहारयति, किमेकदैवेत्याह-अभीक्ष्णंपुनः २, दिने दिने इत्यर्थः, यदि वाऽसौ केनचिनर्वादिना आयुष्मन् ! किमेवं त्वयाऽऽहारतत्परेणैव स्थीयते ?, दुर्लभा खलु इयं मनुजत्वादिचतुरङ्गसामग्री, तत एनमेवाप्य तव तपस्येवोद्यन्तुमुचितमित्यादि चोदितः सन् प्रतिचोदयति, यथा कुशलस्त्वमुपदेशदाने, न तु स्वयमनुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान्न विकृष्टं तपोऽनुतिष्ठति इत्यर्थः ॥ १६ ॥ ५४२॥
तपाचार
विषये पापश्रमण
त्वम्
॥१३३॥
Sain Education
For Private & Personal use only
Mainelibrary.org