________________
उत्तरा० अवचूर्णिः ॥१३२॥
पापश्रमणीयम|ध्ययनम्
१७
OXXXXXXXXXXXXX
दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे अ, पाव०॥५३४॥ तथाकृतं-तथाविधालम्बनं विनाऽपि त्वरितं चरति-गोचरचर्यादिषु भ्राम्यति, प्रमत्तश्च-प्रमादवांश्च भवतीति शेषः, अभीक्ष्णं-वारं वारं उल्लङ्घनश्च बालादीनामुचितप्रतिपत्त्यकरणतः अधःकर्ता चण्ड:-क्रोधनः यद्वा चण्डोऽनुपयुक्त ईर्यासमिती, उल्लङ्घनश्च वत्सडिम्भादीनां चण्डः आरभटवृत्त्याश्रयणतः ॥८॥५३४ ॥
पडिलेहेइ पमत्तो, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्ते, पाव० ॥ ५३५ ॥ तथा प्रतिलेखयति प्रमत्तः सन् , अपोज्झति यत्र तत्र निक्षिपति पादकम्बलं पात्रकम्बलं वा, उपलक्षणत्वात्समस्तोपधिं च, स एवं प्रतिलेखनाऽनायुक्तः-प्रत्युपेक्षानुपयुक्तः, पाप०॥९॥५३५ ॥
पडिलेहेइ पमत्ते, से किंचि हु निसामिआ । गुरुं परिभाव(स पा०)ए निच्चं, पाव०॥५३६॥ __ तथा प्रतिलेखयति प्रमत्तः सन् स होरप्यर्थत्वात् किञ्चिदपि विकथादीति गम्यं निशम्य-आकर्ण्य, तत्राक्षिप्तचित्ततयेति भावः, गुरुपरितापको नित्यं-सदा, कोऽर्थः १, असम्यक् प्रत्युपेक्षमाणोऽन्यद्वा वितथमाचारन गुरुभिश्चोदितस्तानेवासत्यवचनैरभिभवति, यथा-स्वयमेव प्रत्युपेक्षध्वं, युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि, इह च गुरुपरिभाषकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् ॥१०॥५३६ ॥ किंच
बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पाव० ॥५३७॥
चारित्राचारेऽपि पापश्रमणता
॥१३२॥
For Private & Personal use only
braryong