SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ KXOXOXOXOXOXOXOXOXOXOXOX इत्थं ज्ञानाचारविषयं पापश्रमणमुक्त्वा दर्शनाचारनिरपेक्षं तमेवाह आयरियउवज्झायाणं, सम्मं नो पडितप्पई । अप्पडिपूअए थद्धे, पावस०॥५३१॥ आचार्योपाध्यायानां सम्यग्-अवैपरीत्येन न परितप्यते-न तप्तिं विधत्ते, दर्शनाचारान्तर्गतवात्सल्यविरहतो न तत्कार्येषु अभियोगं विधत्ते इत्यर्थः, अप्रतिपूजकः प्रस्तावादहदादिषु यथोचितप्रतिपत्तिपराङ्मुखः, यद्वा केनाप्यपकृतोऽपि न प्रत्युपकारी स्तब्धो-गर्वाध्मातः केनचित्प्रेर्यमाणोऽपि न तद्वचनतः प्रवर्तते गर्वादात्मानमेव बहुमन्यते यः॥५॥५३१॥ सम्प्रति चारित्राचारविकलं तमेवाह संमद्दमाणे पाणाणि, बीयाणि हरियाणि य । असंजए संजय मन्नमाणे, पाव० ॥५३२॥ __संमर्दयन्-हिंसन् प्राणानिति प्राणयोगाद् द्वीन्द्रियादीन् प्राणिनः बीजानि-शाल्यादीनि हरितानि च-दूर्वाङ्करादीनि, सर्वै- केन्द्रियोपलक्षणमिदं, अत एवासंयतोऽपि सोपस्कारत्वात् संयतोऽहमिति मन्यमानः, पापेत्यादि प्राग्वत् , अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तम् ॥ ६ ॥ ५३२॥ संथारं फलगं पीढं, निसिज्जं पायकवलं । अप्पमजियमारुहई, पाव०॥ ५३३ ॥ तथा संस्तारः कंबल्यादि, फलकं दारुमयं, पीठं आसनं, निषद्या-स्वाध्यायभूम्यादिकं, पादकंबलं-पादपुच्छनकं, प्रमृज्य रजोहरणादिना असंशोध्योपलक्षणत्वादप्रत्युपेक्ष्य च, आरोहति-समाजामति यः स पा०॥७॥५३३ ॥ दर्शनचारित्राचरे पापश्रमणता XXXXXXX in Education For Privale & Personal use only nelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy