SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ उत्तरा० अवचूर्णिः विनयाध्ययनम् १ यदि वा, एकान्ते, नेति निषेधे, एवोऽवधारणे, स च "शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि,” इति कुमतनिराकरणार्थः, कदाचिदपि परुषोक्तावपि ॥१७॥ शुश्रूषणात्मकं तमेवाह न पक्खओ न पुरओ, नेव किच्चाण पिट्टओ। न जुंजे उरुणा ऊरु, सयणे ण पडिस्सुणे ॥१८॥ न पक्षतो-दक्षिणादिपार्श्वतः, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पक्तिसमावेशतस्तत्साम्यापादनेनाविनयभावात् , नाग्रतो वन्दकजनस्य गुरुमुखादर्शनादिनाऽप्रीतिभावात् , नैव कृतिः-वन्दनं तदर्हन्तीतिदण्डित्वात् ये कृत्या-आचार्यास्तेषां पृष्ठतो, द्वयोरपि मुखादर्शने रसवत्ताऽभावात् , न युज्यात्-सङ्घट्टयेदूरुणा-ऽऽत्मीयेन ऊरुं गुरुसक्तं, उपलक्षणमेतच्छेषाङ्गस्पर्शपरिहारस्य, शयानशयितः आसीनो वेति शेषः, न प्रतिशृणुयात् , किन्तु गुरुपार्श्वमागत्य भगवन्निच्छामोऽनुशिष्टिमिति वदेत् ॥१८॥ पुनस्तमेवाहनेव पल्हत्थियं कुज्जा, पक्खपिंडं व संजए। पाए पसारि(प्र०)ए वावि, न चिट्ठे गुरुणंतिए ॥१९॥ नैव पर्यस्तिकां-जानुजङ्घोपरिवस्त्रवेष्टनात्मिकां कुर्यात् , पक्षपिण्डं वा-बाहुद्वयकायपिण्डात्मकं साधुः, पादौ प्रसारितौ वाऽपि कृत्वेति शेषः, एकारस्यालाक्षणिकत्वात्प्रसार्य वा न तिष्ठेत् गुरूणामन्तिके, उचितप्रदेशेऽपीति, उपलक्षणं चैतदुपष्टम्भादीनाम् ॥ १९॥ शुश्रूषणाविनयः ॥ ५ ॥ Jain Education For Privale & Personal use only
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy