________________
हासं किहुं रई दप्पं, सहसावत्तासियाणि य (हस्स दप्पं रई किडु सह भुत्तासियाणि य पा०)।
बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥५१५॥ हासं क्रीडां-बूतरमणात्मिकां रति-कान्ताङ्गसङ्गजनितां प्रीति, दर्प-मनस्विनीमानदलनोत्थं गर्व 'सहसा अवत्रासितानि च | पराङ्मुखदयितादेः सपदि त्रासोत्पादकानि अक्षिस्थगनमर्मोद्धट्टनादीनि, सर्वत्र पूर्वकृतत्वं प्रक्रमादपेक्षणीयं नानुचिन्तयेत् कदाचिदपि ॥ ६॥ ५१५ ॥
पणीयं भत्तपाणं च, खिप्पं मयविवड्डणं । बंभचेररओ भिक्खू, निचसो परिवजए॥५१६ ॥ पणीअंसूत्रं सुगम, नवरं मदः-कामोद्रेकः इह गृह्यते तस्य विवर्द्धनं-अतिबृंहकतया विशेषतो वृद्धिहेतुं परिवर्जयेत्॥७॥५१६॥ धम्म लद्धं (धम्मलद्धं पा०) मियं काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥५१७॥
विभूसं परिवजिजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥५१८॥ धर्मादनपेतं धर्म्यमेषणीयमित्यर्थो, यद्वा धर्मेण हेतुना न तु कुण्डलादिकरणेन लब्धं-प्राप्तं, गृहस्थेभ्य इति गम्यं, मितं“अद्धमसणस्से "त्याद्यागमोक्तमानान्वितं, आहारमिति गम्यं, काले प्रस्तावे, यात्रार्थ-संयमनिर्वाहार्थ, न तु रूपाद्यर्थ, प्रणिधानवान्-चित्तस्वास्थ्योपेतो, न तु रागद्वेषवशगो, भुञ्जीतेति सम्बन्धः, तोरेवकारार्थस्य व्यवहितसम्बन्धात्तद् न अतिमात्रं-अतिरिक्तं भुञ्जीत सदा-सर्वकालं, कदाचित्कारणतोऽतिमात्राहारस्य येनादुष्टत्त्वात् , विभूषां-उपकरणगतामुत्कृष्टवस्त्राद्यात्मिक परिवर्जयेत्परिहरेत् , शरीरपरिमण्डनं-नखकेशश्मश्रुसमारचनादि शृङ्गारार्थ-विलासार्थ न धारयेत्-न कुर्यात् ॥८-९ ॥५१७-५१८॥
ब्रह्मचर्यस्थानदर्शिका
गाथाः
SKARKIOXOXOXOXOX
Jain Education
anal
For Private & Personal use only
RECOVijainelibrary.org