________________
XXX
*XXXXXXX
गुप्तिभिः, गुप्तत्वादेव च गुप्तानि - विषयप्रवृत्तितो रक्षितानीन्द्रियाणि येन सः, अत एव च गुप्तं नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं - आसेवितुं शीलमस्येति गुप्तब्रह्मचारी, सदा-सर्वदा, अप्रमत्तः - प्रमादरहितो विहरेत्, अप्रतिबद्धविहारितया चरेत् एतेन संयमबहुलत्वादिदशब्रह्मचर्यसमाधिस्थानफलमुक्तं, एतदविनाभावित्वात्तस्य । १ । २ ।
करे ते खलु थेरेहिं भगवंतेहिं दसवंभचेरसमाहिठाणा पन्नत्ता ?, इमे खलु ते जाव विहरिजा, तंजहाविवित्ताई सयणासणाई सेविज्जा से निग्गंथे, नो इत्थीप सुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे, तं कहं इति चे (X) दायरियाह (X)- निग्गंधस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स भयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थिपसुपंडग| संसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे (१) । ३ ।
कतराणीति प्रश्नसूत्रमिमानीत्यादि निर्वचनसूत्रं च प्राग्वत्, तान्येवाह - तद्यथा - इत्युपन्यासे, विविक्तानि - स्त्रीपशुपण्डकाकीर्णत्वविरहितानि शय्यते येषु तानि शयनानि - फलकसंस्तारकादीनि, आस्यते येषु तानि आसनानि, पीठपादपुञ्छनादीनि शयनासनान्युपलक्षणत्वात्स्थानानि च सेवेत यः, निर्ग्रन्थो - भावग्रन्थान् निष्क्रान्तो भवतीतिशेषः, इत्थमन्वयेनोक्तत्वाऽव्यु - पन्नविनेयानुग्रहायामुमेवार्थं व्यतिरेकेणाह - स्त्रियाश्च - दिव्या मानुष्यो वा पशवश्च - अजैडकादयः, पण्डकाश्च - नपुंसकानि स्त्रीपशुपण्डकास्तैः संसक्तानि - आकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता - उपभोक्ता भवति, तद्-अनन्तरोक्तं, कथं
Jain Education rational
For Private & Personal Use Only
प्रथमं ब्रह्मचर्यसमाधि
स्थानम् १
v.jainelibrary.org