________________
उत्तरा० अवचूर्णिः
॥ अथ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् ॥
ब्रह्मचर्यसमाधि
॥१२४॥
स्थानाध्ययनम्
ब्रह्मचर्य
समाधि
अनन्तराध्ययने भिक्षुगुणा उक्ताः, ते च तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य स्युः, तदपि ब्रह्मगुप्तिपरिज्ञानत इति ता अत्रोच्यते
सुअं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, जे भिक्खू सुच्चा निसम्म संजमबहले संवरबहुले समाहियहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा । सू० २। ___ अस्य च दशब्रह्मचर्यसमाधिस्थानमिति नाम, श्रुतं हि मया हे आयुष्मन् ! तेन भगवता कथितं, कथमित्याह-सोपस्कारत्वात्सूत्रस्य यथेति गम्यते, ततो यथेह क्षेत्रे प्रवचने वा खलु-निश्चयेन स्थविरैः-गणधरादिभिर्भगवद्भिः-परमैश्वर्यादिकयुक्तैर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि-प्ररूपितानि, कोऽभिप्रायः ?-नैषामियं स्वबुद्धिः, किंतु तेन भगवताऽप्येवमाख्यातं, मया श्रुतं, ततोऽत्र मा अनास्थां कृथाः, तान्येव विशिनष्टि-यानि ब्रह्मचर्यस्थानानि भिक्षुः-यतिः श्रुत्वा शब्दतः निशम्य-अवधार्यार्थतः बहुल:-प्रभूतः, उत्तरोत्तरस्थानावाप्त्या संयमः-आश्रवविरमणात्मकोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात्, संवरः-आश्रवनिरोधः स बहुल:-प्रभूतोऽस्येति सः, अत एव समाधिः-चित्तस्वास्थ्यं तेन बहुलो बहुलसमाधिः, गुप्तो-मनोवाक्का
स्थानाने
॥१२४॥
JainEducation international
For Privale & Personal Use Only
wow.jainelibrary.org.